पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
नृसिहप्रसादे

देवतभेदात्पात्रत्रयमेव क्रियते नतु ब्राह्मणानुरोध देकमिति, त
इदू दैवतर्पश्यपि तथैव योजितव्यम् । अनेनैवाभिप्रायेण कर्कभाष्य
कारा अपि एकमेवर्यपात्रं देवस्थाने समर्पयन्तस्तथैव स्मरान्त

‘श्रयं स्यादध्र्यहेतुत्वादतस्तु पितृसंख्यया ।
प्रकुर्यादध्र्यपात्राणि नातो विप्रस्य संख्ययेति ।

तत | एकमेवाध्र्यपात्रमित्येके । अपरे तु वे एव पात्रे कर्तव्ये ।

स्याहुः, भाजने सपवित्रके इति पदस्य द्विवचनान्तत्वात् । न चैक
देवतात्वादेकपात्रता शक्या ।
“पुरूरवाद्भवौ चैव पार्वणे समुदाहृताविति स्मरणात् देव
ताद्वयप्रतीतेरनपलपनीयत्वात् । अन्यथा एकदेवतायामेकस्यैव ।
ब्राह्मणस्य नियोज्यत्वापरः। ततश्च ‘द्वौ दैवे श्रीन् तथा पित्र्येण
इति स्मृतिव्याकोपस्तस्माद् देवताभेदात्रभेद इत्येव युक्तम् । त
दुक्तं मत्स्यपुराणे

‘विश्वान्देवान्यवैः पुष्पैर्भ्यच्यसनपूर्वकम् ।
पूरयेत्पात्रयुग्मन्तु स्थाष्ये दर्भपवित्रके” इति ।

तथा प्रचेता अपि

“एकैकस्य तु विप्रस्य अर्थपात्रे विनिक्षिपेत् ।
यघोऽसीति यवान्कीर्य गन्धपुष्पैः सुपूजितैरिति ।
अत्रोभयासम्भवेऽपि स्वकुलाचरतो व्यवस्था द्रष्टव्या ।

ततः करशौचार्थमुदकं दत्वा क्रमेणैव गन्धपुष्पधूपदीपाच्छ

दनदानं कुर्यात् । गन्धदानं च पवित्ररहितकराभ्यामेव ।
‘अपवित्रेण हस्तेन गन्धं दद्यादिति स्मरणात् । गन्धश्चन्दन