पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
नृसिहप्रसादे

ततः पित्र्यादीनां च त्रयाणामयुग्मान् कुशान् द्विगुणश्रुनान्
प्रदक्षिणं वामतो विष्टरार्थमासनेऽदपूर्वं दद्यात् , ततः पुनरुदकं द
द्यात् । तथा चाहाश्वलायनाचार्य,
“अपः प्रदाय द्विगुणभुग्नान् कुशान् कृत्वा अपः प्रदाये"ति ।
इदं वैश्वदेविके पित्र्ये च कर्मणि आद्यन्तयोरुदकदानं च प्रतिपदार्थ
द्रष्टव्यम् । तत शासनानन्तरं प्राचीनावीतं विधाय सतिलान् द्विगुण
दर्भानादाय श्राद्धे क्षणः क्रियतामिति क्षणं दत्वा सव्यं जान्वालभ्य
द्वितीयाविभक्त्या बहुवचनान्तगोत्रशब्द समुच्चार्य तथैव ब्राह्मणना
मान्युच्चार्य पितृन् पितामहान् प्रपितामहान् इति ब्राह्मणानामाज्ञां ।
पृष्ट्वा आवाहयेति ब्राह्मणैरनुज्ञातः उशन्तस्त्वा निधीमहीत्येतयर्चा
आवाहन विधाय श्रायन्तु नः पितर इति मन्त्रेणोपस्थाय अपहता
इत्यनेन अप्रदक्षिणं तिलान् विकिरेत् ।
छन्दोगास्तु जानुविसर्जनानन्तरे एतद्वः पितरः सोम्यास इत्यादि
जप्त्वा शेषं पूर्ववत्कुर्युः । तत आवाहनानन्तरमध्यंदिकं कुर्यात् ।
पात्रासादनं च विष्णूक्तरीत्य, दक्षिणापवर्गतयाऽदितेषु
पचित्रान्तर्हितेषु त्रिष्वपि पत्रेषु शन्नो देवीरभिष्टय इति मन्त्रेण प्रति
पात्रमुदकमासिञ्चेत् । पात्राणि चार्यब्राह्मणबहुत्वेऽपि देवतासङ्
ख्यया त्रीण्येव ।

“स्तीत्वां पितृणां त्रीण्येव कुर्यात् पात्राणि धर्मवित् ।
एकस्मिन् वा बहुषु वा ब्राह्मणेषु यथाविधि’ इति ।

स्तीर्वा अध्यदके तिलन् क्षिप्त्वा इत्यर्थः । अध्यैपवित्र