पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सन्ततिदायकः।
तथा च मनुः

पतिव्रता धर्मपत्नी पितृपूजननन्परा ।
मध्यमं तु तथा पिशङमयान् सम्यक् मुतार्थिनो ।

पत्नीसन्निधानाभावे सभनय गभीरागवन्वे वाऽनीशवृषभं छागं

वा भोजयेत् तदभावे आकाशं गमयेत् पिराई व्रतस्थो दक्षिणामुखः।

‘पितृणां स्थानमाकाशं दक्षिणा दिक् तथैव च ।

देवल -

‘‘अग्नित्राह्मणाऽजगोर्वा भक्षयेदप्सु चेति ।

इदं पुत्रेच्छाविषयम् । तीर्थश्राद्धे पिण्डानामप्सु प्रक्षेप

इति । वैश्वदेवः सर्वाहिताग्निना श्रद्धापूर्वमेव कर्तव्यः । अनाहिता
निश्चेत् श्राद्धोत्तरकालमिति व्यवस्था इत्यह्निके । सम्यग् बहूक्त
मित्यत्यलमनेन ।

प्रौढ श्री द्विजराजवंशतिलकालङ्कारहीरः प्रभु
भरद्वाजकुलानुगः प्रथमया यः शाखयाऽलङकृत ।
श्रीमद्वल्लभमृनुरात्मनिरतः सत्सम्प्रदायाग्रणीः
सारे श्राद्धविनिर्णयेऽति चतुरे श्रीमान् दलाधीश्वरः।।१॥
निजामसाह साम्राज्यधुरन्धर महीपतिः।
श्री नृसिंहप्रसादेऽस्मिन् सम्पूर्ण कुरुते शुभम् ॥२॥


इति श्रीमल्लदमीदृसिहचरणसरोरुहभ्रमरसकल भूमण्डल समस्त
यवनाधाश्वर श्रीनिजामसाह याज्ञवल्क्यशाखाप्रवर्तक श्रीमहल
पतिराजविरचिते श्रीवृसिंहप्रसादे श्रद्धसारः सम्पूर्णः ।