ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ०८

विकिस्रोतः तः
← अध्यायः ०७ ब्रह्मवैवर्तपुराणम्
अध्यायः ०८
वेदव्यासः
अध्यायः ०९ →

नारद उवाच ।।
हरेर्निमेषमात्रेण ब्रह्मणः पात एव च ।।
तस्य पाते प्राकृतिकः प्रलयः परिकीर्त्तितः ।। १ ।।
प्रलये प्राकृते चोक्तं तत्रादृष्टा वसुन्धरा ।।
जलप्लुतानि विश्वानि सर्वे लीना हराविति ।। २ ।।
वसुन्धरा तिरोभूता कुत्र वा तत्र तिष्ठति ।।
सृष्टेर्विधानसमये साऽऽविर्भूता कथं पुनः ।। ३ ।।
कथं बभूव सा धन्या मान्या सर्वाश्रया जया ।।
तस्याश्च जन्मविस्तारं वद मङ्गलकारणम् ।। ४ ।।
श्रीनारायण उवाच ।।
सर्वादिसृष्टौ सर्वेषां जन्म कृष्णादिति श्रुतिः ।।
आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु च ।।५।।
श्रूयतां वसुधाजन्म सर्वमंगलमंगलम् ।।
विघ्ननिघ्नं परं पाप नाशनं पुण्यवर्द्धनम् ।। ६ ।।
अहो केचिद्वदन्तीति मधुकैटभमेदसा ।।
बभूव वसुधा धन्या तद्विरुद्धमतं शृणु ।। ७ ।।
ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा ।।
आवां जहि न यत्रोर्वी पयसा संवृतेति च ।। ८ ।।
तयोर्जीवनकालेन प्रत्यक्षा च भवेत्स्फुटम् ।।
ततो बभूव मेदश्च मरणानन्तरं तयोः ।। ९ ।।
मेदिनीति च विख्यातेत्युक्ता यैस्तन्मतं शृणु ।।
जलधौता कृशा पूर्वं वर्द्धिता मेदसा यतः ।। 2.8.१० ।।
कथयामि च तज्जन्म सार्थकं सर्वसम्मतम् ।।
पुरा श्रुतं च श्रुत्युक्तं धर्मवक्त्राच्च पुष्करे ।। ११ ।।
महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् ।।
मलो बभूव कालेन सर्वांगव्यापको ध्रुवम् ।। १२ ।।
स च प्रविष्टः सर्वेषां तल्लोम्नां विवरेषु च ।।
कालेन महता तस्माद्बभूव वसुधा मुने ।।१३।।
प्रत्येकं प्रतिलोम्नां च स्थिता कूपेषु सा स्थिरा ।।
आविर्भूता तिरोभूता सा चला च पुनः पुनः ।। १४ ।।
आविर्भूता सृष्टिकाले तज्जलात्पर्य्युपस्थिता ।।
प्रलये च तिरोभूता जलाभ्यन्तरवस्थिता ।। १५ ।।
प्रतिविश्वेषु वसुधा शैलकाननसंयुता ।।
सप्तसागरसंयुक्ता सप्तद्वीपमिता सती ।। १६ ।।
हिमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता ।।
ब्रह्मविष्णुशिवाद्यैश्च सुरैर्लोकैस्तथा नुता ।। १७ ।।
पुण्यतीर्थसमायुक्ता पुण्यभारतसंयुता ।।
काञ्चनीभूमिसंयुक्ता सर्वदुर्गसमन्विता ।। १८ ।।
पातालाः सप्त तदधस्तदूर्ध्वे ब्रह्मलोककः ।।
ध्रुवलोकश्च तत्रैव सर्वं विश्वं च तत्र वै ।। १९ ।।
एवं सर्वाणि विश्वानि पृथिव्यां निर्मितानि वै ।।
ऊर्ध्वं गोलोकवैकुण्ठौ नित्यौ विश्वपरौ च तौ ।। 2.8.२० ।।
नश्वराणि च विश्वानि कृत्रिमाकृत्रिमाणि च ।।
प्रलये प्राकृते ब्रह्मन्ब्रह्मणश्च निपातने ।। २१ ।।
महाविराडादिसृष्टौ सृष्टः कृष्णेन चात्मना ।।
नित्ये स्थितः स प्रलये काष्ठाकाशेश्वरैः सह ।। २२ ।।
क्षित्यधिष्ठातृदेवी सा वाराहे पूजिता सुरैः ।।
मनुभिर्मुनिभिर्विप्रैर्गन्धर्वादिभिरेव च ।। २३ ।।
विष्णोर्वराहरूपस्य पत्नी सा श्रुतिसम्मता ।।
तत्पुत्रो मंगलो ज्ञेयः सुयशा मंगलात्मजः ।। २४ ।।
नारद उवाच ।।
पूजिता केन रूपेण वाराहे च सुरैर्मही ।।
वराहेण च वाराही सर्वैः सर्वाश्रया सती ।। २५ ।।
तस्याः पूजाविधानं चाप्यधश्चोद्धरणक्रमम् ।।
मंगलं मंगलस्यापि जन्मव्यासं वद प्रभो ।। २६ ।।
नारायण उवाच ।।
वाराहे च वराहश्च ब्रह्मणा संस्तुतः पुरा ।।
उद्दधार महीं हत्वा हिरण्याक्षं रसातलात् ।। २७ ।।
जले तां स्थापयामास पद्मपत्रं यथाऽर्णवे ।।
तत्रैव निर्ममे ब्रह्मा सर्वं विश्वं मनोहरम् ।। २८ ।।
दृष्ट्वा तदधि देवीं च सकामां कामुको हरिः ।।
वराहरूपी भगवान्कोटिसूर्य्यसमप्रभः ।। २९ ।।
कृत्वा रतिकरीं शय्यां मूर्त्तिं च सुमनोहराम् ।।
क्रीडां चकार रहसि दिव्यवर्षमहर्निशम् ।। 2.8.३० ।।
सुखसम्भोगसंस्पर्शान्मूर्च्छां सम्प्राप सुन्दरी ।।
विदग्धाया विदग्धेन संगमोऽपि सुखप्रदः ।। ३१ ।।
विष्णुस्तदंगसंश्लेषाद् बुबुधे न दिवानिशम् ।।
वर्षान्ते चेतनां प्राप्य कामी तत्याज कामुकीम् ।।३२।।
दधार पूर्वरूपं हि वाराहं चैव लीलया ।।
पूजां चकार भक्त्या च ध्यात्वा च धरणीं सतीम् ।। ३३ ।।
धूपैर्दीपैश्च नैवद्यैः सिन्दूरैरनुलेपनः ।।
वस्त्रैः पुष्पैश्च बलिभिः संपूज्योवाच तां हरिः ।। ३४ ।।
महावराह उवाच ।।
सर्वाधारा भव शुभे सर्वैः संपूजिता शुभम् ।।
मुनिभिर्मनुभिर्देवैः सिद्धैर्वा मानवादिभिः ।। ३९ ।।
जलोच्छ्वासाज्जलत्यागगृहारम्भप्रवेशने ।।
वापीतडागारम्भे च शुभे च कृषि कर्मणि ।। ३६ ।।
तव पूजां करिष्यन्ति संभ्रमेण सुरादयः ।।
मूढा ये न करिष्यन्ति यास्यन्ति नरकं च ते ।। ३७ ।।
वसुधोवाच ।।
वहामि सर्वं वाराहरूपेणाहं तवाज्ञया ।।
लीलामात्रेण भगवन्विश्वं च सचराचरम् ।। ३८ ।।
मुक्तां शुक्तिं हरेरर्चां शिवलिंगं शिलां तथा ।।
शंखं प्रदीपं रत्नं च माणिक्यं हीरकं मणिम् ।। ३९ ।।
यज्ञसूत्रं च पुष्पं च पुस्तकं तुलसीदलम् ।।
जपमालां पुष्पमालां कर्पूरं च सुवर्णकम् ।। 2.8.४० ।।
गोरोचनां चन्दनं च शालग्रामजलं तथा ।।
एतान्वोढुमशक्ताऽहं क्लिष्टा च भगवञ्छृणु ।। ४१ ।।
श्रीभगवानुवाच ।।
द्रव्याण्येतानि ये मूढा अर्पयिष्यन्ति सुन्दरि ।।
यास्यन्ति ते कालसूत्रं दिव्यं वर्षशतं त्वयि ।। ४२ ।।
इत्येवमुक्त्वा भगवान्विरराम च नारद ।।
बभूव तेन गर्भेण तेजस्वी मङ्गलग्रहः ।।४३।।
पूजां चक्रुः पृथिव्याश्च ते सर्वे चाज्ञया हरेः ।।
दध्युः काण्वोक्तमार्गेण तुष्टुवुः स्तवनेन च ।। ४४ ।।
दद्युर्मूलेन मन्त्रेण नैवेद्यादिकमेव च ।।
संस्तुता त्रिषु लोकेषु पूजिता सा बभूव ह ।। ४५ ।।
नारद उवाच ।।
किं ध्यानं स्तवनं किं वा तस्या मूलं च किं वद ।।
गूढं सर्वपुराणेषु श्रोतुं कौतूहलं मम ।। ४६ ।।
नारायण उवाच ।।
आदौ च पृथिवी देवी वराहेण सुपूजिता ।।
ततो हि ब्रह्मणा पश्चात्ततश्च पृथुना पुरा ।। ४७ ।।
ततः सर्वैर्मुनीन्द्रैश्च मनुभिर्नारदादिभिः ।।
ध्यानं च स्तवनं मन्त्रं शृणु वक्ष्यामि नारद ।। ४८ ।।
ॐ ह्रीं श्रीं वां वसुधायै स्वाहा ।।
इत्यनेन तु मन्त्रेण पूजिता विष्णुना पुरा ।। ४९ ।।
श्वेतचम्पकवर्णाभां शतचन्द्रसमप्रभाम् ।।
चन्दनोक्षितसर्वाङ्गीं सर्वभूषणभूषिताम् ।। 2.8.५० ।।
रत्नाधारां रत्नगर्भां रत्नाकरसमन्विताम् ।।
वह्निशुद्धांशुकाधानां सस्मितां वन्दितां भजे ।। ५१ ।।
ध्यानेनानेन सा देवी सर्वैर्वै पूजिता भवेत् ।।
स्तवनं शृणु विप्रेन्द्र कण्वशाखोक्तमेव च ।।५२।।
विष्णुरुवाच ।।
यज्ञसूकरजाया त्वं जयं देहि जयावहे ।।
जयेऽजये जयाधारे जयशीले जयप्रदे ।। ५३ ।।
सर्वाधारे सर्वबीजे सर्वशक्तिसमन्विते ।।
सर्वकामप्रदे देवि सर्वेष्टं देहि मे स्थिरे ।। ९४ ।।
सर्वसस्यालये सर्वसस्याड्ये सर्वसस्यदे ।।
सर्वसस्यहरे काले सर्वसस्यात्मिके क्षिते ।। ५५ ।।
मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे ।।
मङ्गलार्थे मङ्गलांशे मंगलं देहि मे परम् ।। ५६ ।।
भूमे भूमिपसर्वस्वे भूमिपालपरायणे ।।
भूमिपाहङ्काररूपे भूमिं देहि वसुन्धरे ।। ५७ ।।
इदं स्तोत्रं महापुण्यं तां संपूज्य च यः पठेत् ।।
कोट्यन्तरे जन्मनि स संभवेद्भूमिपेश्वरः ।। ।। ५८ ।।
भूमिदानकृतं पुण्यं लभते पठनाज्जनः ।।
दत्तापहारजात्पापान्मुच्यते नात्र संशयः ।। ५९ ।।
अम्बुवीचीभूखननात्पापान्मुच्येत स ध्रुवम् ।।
अन्यकूपे कुपदजात्पापान्मुच्येत स ध्रुवम् ।। 2.8.६० ।।
परभूश्राद्धजात्पापान्मुच्यते नात्र संशयः ।।
भूमौ वीर्य्यत्यागपापाद्दीपादिस्थापनात्तथा ।। ६१ ।।
पापेन मुच्यते प्राज्ञः स्तोत्रस्य पठनान्मुने ।।
अश्वमेधशतं पुण्यं लभते नात्र संशयः।। ६२ ।।
इति श्रीब्रह्मवैर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे पृथिव्युपाख्याने पृथिवीस्तोत्रं नामाष्टमोऽध्यायः।।८।।