ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६ ब्रह्मवैवर्तपुराणम्
अध्यायः ०७
वेदव्यासः
अध्यायः ०८ →

नारायण उवाच ।।
पुण्यक्षेत्रे ह्याजगाम भारते सा सरस्वती ।।
गङ्गाशापेन कलया स्वयं तस्थौ हरेः पदे ।। १ ।।
भारती भारतं गत्वा ब्राह्मी च ब्रह्मणः प्रिया ।।
वागधिष्ठातृदेवी सा तेन वाणी च कीर्त्तिता ।। २ ।।
सर्वं विश्वं परिव्याप्य स्रोतस्येव हि दृश्यते ।।
हरिः सरस्सु तस्येयं तेन नाम्ना सरस्वती ।। ३ ।।
सरस्वती नदी सा च तीर्थरूपाऽतिपावनी ।।
पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ।। ४ ।।
पश्चाद्भगीरथानीता महीं भागीरथी शुभा ।।
समाजगाम कलया वाणीशापेन नारद ।। ५ ।।
तत्रैव समये तां च दधार शिरसा शिवः ।।
वेगं सोढुमशक्ताया भुवः प्रार्थनया विभुः ।। ६ ।।
पद्मा जगाम कलया सा च पद्मावती नदी ।।
भारतं भारतीशापात्स्वयं तस्थौ हरेः पदे ।। ७ ।।
ततोऽन्यया सा कलया चालभज्जन्म भारते ।।
धर्मध्वजसुता लक्ष्मीर्विख्याता तुलसीति च ।। ८ ।।
पुरा सरस्वतीशापात्तत्पश्चाद्धरिशापतः ।।
बभूव वृक्षरूपा सा कलया विश्वपावनी ।। ९ ।।
कलेः पञ्चसहस्रं च वर्षं स्थित्वा च भारते ।।
जग्मुस्ताश्च सरिद्रूपं विहाय श्रीहरेः पदम् ।। 2.7.१० ।।
यानि सर्वाणि तीर्थानि काशीं वृन्दावनं विना ।।
यास्यन्ति सार्द्धं ताभिश्च हरेर्वैकुण्ठमाज्ञया ।। ११ ।।
शालग्रामो हरेर्मूर्त्तिर्जगन्नाथश्च भारतम्।।
कलेर्दशसहस्रान्ते ययौ त्यक्त्वा हरेः पदम् ।। १२ ।।
वैष्णवाश्च पुराणानि शङ्खाश्च श्राद्धतर्पणम् ।।
वेदोक्तानि च कर्माणि ययुस्तैः सार्द्धमेव च ।। १३ ।।
हरिपूजा हरेर्नाम तत्कीर्त्तिगुणकीर्त्तनम् ।।
वेदाङ्गानि च शास्त्राणि ययुस्तैः सार्द्धमेव च ।। १४ ।।
सत्त्वं च सत्यं धर्मश्च वेदाश्च ग्राम्यदेवताः ।।
व्रतं तपस्याऽनशनं ययुस्तैः सार्द्धमेव च ।। १५।।
वामाचाररताः सर्वे मिथ्याकापट्यसंयुताः।।
तुलसीवर्जिता पूजा भविष्यति ततः परम् ।। १६ ।।
एकादशीविहीनाश्च सर्वे धर्मविवर्जिताः ।।
हरिप्रसङ्गविमुखा भविष्यन्ति ततः परम् ।। १७ ।।
शठाः क्रूरा दाम्भिकाश्च महाहङ्कारसंयुताः ।।
चौराश्च हिंसकाः सर्वे भविष्यन्ति ततः परम् ।। १८ ।।
पुंसां भेदस्तथा स्त्रीणां विवाहो वादनिर्णयः ।।
स्वस्वामिभेदो वस्तूनां न भविष्यत्यतः परम् ।। १९ ।।
सर्वे जनाः स्त्रीवशाश्च पुंश्चल्यश्च गृहे गृहे ।।
तर्जनैर्भर्त्सनैः शश्वत्स्वामिनं ताडयन्ति च ।। 2.7.२० ।।
गृहेश्वरी च गृहिणी गृही भृत्याधिकोऽधमः ।।
चेटीभृत्यासमा वध्वः श्वश्रूश्च श्वशुरस्तथा ।। २१ ।।
कर्त्तारो बलिनो गेहे योनिसम्बन्धिबान्धवाः ।।
विद्यासम्बन्धिभिः सार्द्धं सम्भाषाऽपि न विद्यते।।२२।।
यथा परिचिता लोकास्तथा पुंसश्च बान्धवाः ।।
सर्वकर्माक्षमाः पुंसो योषितामाज्ञया विना ।। २३ ।।
ब्रह्मक्षत्त्रियविट्शूद्रा जात्या चारविनिर्णयः ।।
संध्या च यज्ञसूत्रं च भावलुप्तं न संशयः ।। २४ ।।
म्लेच्छाचारा भविष्यन्ति वर्णाश्चत्वार एव च ।।
म्लेच्छशास्त्रं पठिष्यन्ति स्वशास्त्राणि विहाय ते ।।
ब्रह्मक्षत्रविशां वंशाः शूद्राणां सेवकाः कलौ ।। २५ ।।
सूपकारा भविष्यन्ति धावका वृषवाहकाः ।।
सत्यहीना जनाः सर्वे सस्यहीना च मेदिनी ।। २६ ।।
फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः ।।
क्षीरहीनास्तथा गावः क्षीरं सर्पिर्विवर्जितम् ।। २७ ।।
दम्पती प्रीतिहीनौ च गृहिणः सुखवर्जिताः ।।
प्रतापहीना भूपाश्च प्रजाश्च करपीडिताः ।। २८ ।।
जलहीना नदा नद्यो दीर्घिकाः कन्दरादयः ।।
धर्महीना पुण्यहीना वर्णाश्चत्वार एव च ।। २९ ।।
लक्षेषु पुण्यवान्कोऽपि न तिष्ठति ततः परम् ।।
कुत्सिता विकृताकारा नरा नार्य्यश्च बालकाः ।। 2.7.३० ।।
कुवार्त्ताः कुत्सितपथा भविष्यन्ति ततः परम् ।।
केचिद्ग्रामाश्च नगरा नरशून्या भयानकाः ।।३१।।
केचित्स्वल्पकुटीरेण नरेण च समन्विताः ।।
अरण्यानि भविष्यन्ति ग्रामेषु नगरेषु च ।। ३२ ।।
अरण्यवासिनः सर्वे जनाश्च करपीडिताः ।।
सस्यानि च भविष्यन्ति तडागेषु नदीषु च ।। ३३ ।।
क्षेत्राणि सस्यहीनानि प्रकृष्टान्यर्थतः परम् ।।
हीनाः प्रकृष्टा धनिनो बलदर्पसमन्विताः ।।३४।।
प्रकृष्टवंशजा हीना भविष्यन्ति कलौ युगे ।।
अलीकवादिनो धूर्त्ताः शठा वै सत्यवादिनः ।।३५।।
पापिनः पुण्यवन्तश्चाप्यशिष्टः शिष्ट एव च ।।
जितेन्द्रिया लम्पटाश्च पुंश्चल्यश्च पतिव्रताः।।३६।।
तपस्विनः पातकिनो विष्णुभक्ता अवैष्णवाः ।।
हिंसकाश्च दयायुक्ताश्चौराश्च नरघातिनः।।३७।।
भिक्षुवेषधरा धूर्त्ता निन्दन्त्युपहसन्ति च ।।
भूतादिसेवानिपुणा जनानां मोदकारिणः ।। ३८ ।।
पूजितास्ते भविष्यन्ति वञ्चका ज्ञानदुर्बलाः ।।
वामना व्याधियुक्ताश्च नरा नार्य्यश्च सर्वतः ।। ३९ ।।
अल्पायुषो जरायुक्ता यौवनेषु कलौ युगे ।।
पलिता षोडशे वर्षे महावृद्धास्तु विंशतौ।।2.7.४०।।
अष्टवर्षा च युवती रजोयुक्ता च गर्भिणी ।।
वत्सरान्ते प्रसूता स्त्री षोडशेन जरान्विता ।। ४१ ।।
एताः काश्चित्सहस्रेषु वन्ध्याश्चापि कलौ युगे ।।
कन्याविक्रयिणः सर्वे वर्णाश्चत्वार एव च ।। ४२ ।।
मातृजायावधूनां च जारोपार्जनतत्पराः ।।
कन्यानां भगिनीनां च जारोपार्जनजीविनः।।४३।।
हरेर्नाम्नां विक्रयिणो भविष्यन्ति कलौ युगे ।।
स्वयमुत्सृज्य दानं च कीर्तिवर्द्धनहेतवे ।।४४।।
तत्पश्चान्मनसाऽऽलोच्य स्वयमुल्लङ्घयिष्यति ।।
देववृत्तिं ब्रह्मवृत्तिं वृत्तिं गुरुकुलस्य च ।।४५।।
स्वदत्तां परदत्तां वा सर्वमुल्लङ्घयिष्यति ।।
कन्यकागामिनः केचित्केचिच्छ्वश्र्वभिगामिनः ।। ४६ ।। च्छश्र्व
केचिद्वधूगामिनश्च केचित्सर्वत्रगामिनः ।।
भगिनीगामिनः केचित्सपत्नीमा तृगामिनः ।। ४७ ।।
भ्रातृजायागामिनश्च भविष्यति कलौ युगे ।।
अगम्यागमनं चैव करिष्यन्ति गृहे गहे ।। ४८ ।।
आत्मयोनिं परित्यज्य विहरिष्यन्ति सर्वतः ।।
पत्नीनां निर्णयो नास्ति भर्तॄणां च कलौ युगे।।४९।।
प्रजानां चैव वस्तूनां ग्रामाणां च विशेषतः।।
अलीकवादिनः सर्वे सर्वे चौर्यार्थलम्पटाः ।। 2.7.५० ।।
परस्परं हिंसकाश्च सर्वे च नरघातिनः ।।
ब्रह्मक्षत्रविशां वंशा भविष्यन्ति च पापिनः ।। ५१ ।।
लाक्षालोहरसानां च व्यापारं लवणस्य च ।।
वृषवाहा विप्रवंशाः शूद्राणां शवदाहिनः ।।९२।।
शूद्रान्नभोजिनः सर्वे सर्वे च वृषलीरताः ।।
पञ्चपर्वपरित्यक्ताः कुहूरात्रिषु भोजिनः ।। ५३ ।।
यज्ञसूत्रविहीनाश्च सन्ध्याशौचविहीनकाः ।। ५४ ।।
पुंश्चली वार्धुषाऽवीरा कुट्टिनी च रजस्वला।।
विप्राणां रन्धनागारे भविष्यन्ति च पाचिकाः ।।५५।।
अन्नानां निर्णयो नास्ति योनीनां च विशेषतः ।।
आश्रमाणां जनानां च सर्वे म्लेच्छाः कलौ युगे ।। ५६ ।।
एवं कलौ संप्रवृत्ते सर्वे म्लेच्छमया भवे ।।
हस्तप्रमाणे वृक्षे चाङ्गुष्ठमाने च मानवे ।। ५७ ।।
विप्रस्य विष्णुयशसः पुत्रः कल्की भविष्यति ।।
नारायणकलांशश्च भगवान्बलिनां बली ।। ५८ ।।
दीर्घेण करवालेन दीर्घघोटकवाहनः ।।
म्लेच्छशून्यां च पृथिवीं त्रिरात्रेण करिष्यति ।। ५९ ।।
निर्म्लेच्छां वसुधां कृत्वा चान्तर्द्धानं करिष्यति ।।
अराजका च वसुधा दत्युग्रस्ता भविष्यति ।। 2.7.६० ।।
स्थूलप्रमाणं षड्रात्रं वर्षाधाराप्लुता मही ।।
लोकशून्या वृक्षशून्या गृहशून्या भविष्यति ।। ६१ ।।
ततश्च द्वादशादित्याः करिष्यन्त्युदयं मुने ।।
प्राप्नोति शुष्कतां पृथ्वी समा तेषं च तेजसा ।। ६२ ।।
कलौ गते च दुर्द्धर्षे संप्रवृत्ते कृते युगे ।।
तपस्सत्यसमायुक्तो धर्मः पूर्णो भविष्यति ।। ६३ ।।
तपस्विनश्च धर्मिष्ठा वेदज्ञा ब्राह्मणा भुवि ।।
पतिव्रताश्च धर्मिष्ठा योषितश्च गृहे गृहे ।। ६४ ।।
राजानः क्षत्रियाः सर्वे विप्रभक्ताः स्वधर्मिणः ।।
प्रतापवन्तो धर्मिष्ठाः पुण्यकर्मरताः सदा ।। ६५ ।।
वैश्या वाणिज्यनिरता विप्रभक्ताश्च धार्मिकाः ।।
शूद्राश्च पुण्यशीलाश्च धर्मिष्ठा विप्रसेविनः ।। ६६ ।।
विप्रक्षत्त्रविशां वंशा विष्णुयज्ञपरायणाः ।।
विष्णुमन्त्ररताः सर्वे विष्णुभक्ताश्च वैष्णवाः ।। ६७ ।।
श्रुतिस्मृतिपुराणज्ञा धर्मज्ञा ऋतुगामिनः ।।
लेशो नास्ति ह्यधर्माणां धर्मपूर्णे कृते युगे।।६८।।
धर्मस्त्रिपाच्च त्रेतायां द्विपाच्च द्वापरे स्मृतः।।
कलौ प्रवृत्ते पादात्मा सर्वलोपस्ततः परम् ।। ६९ ।।
वाराः सप्त यथा विप्र तिथयः षोडश स्मृताः ।।
यथा द्वादश मासाश्च ऋतवश्च षडेव हि ।। 2.7.७० ।।
द्वौ पक्षौ चायने द्वे च चतुर्भिः प्रहरैर्दिनम् ।।
चतुर्भिः प्रहरे रात्रिर्मासस्त्रिंशद्दिनैस्तथा ।। ७१ ।।
वर्षः पञ्चविधो ज्ञेयः कालसंख्यां निबोध मे ।।
यथा चायान्ति यान्त्येव तथा युगचतुष्टयम् ।। ७२ ।।
वर्षे पूर्णे नराणां च देवानां च दिवानिशम् ।।
शतत्रये षष्ट्यधिके नराणां च युगे गते ।।
देवानां च युगो ज्ञेयः कालसंख्याविदां मतः ।। ७३ ।।
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।।
मन्वतरसमं ज्ञेयं चेन्द्रायुः परिकीर्तितम् ।। ७४ ।।
अष्टाविंशतिमे चेन्द्रे गते ब्राह्मं दिवानिशम् ।।
अष्टोत्तरे वर्षशते गते पातो विधेर्भवेत् ।। ७५ ।।
प्रलयः प्राकृतो ज्ञेयस्तत्रादृष्टा वसुन्धरा ।।
जलप्लुतानि विश्वानि ब्रह्मविष्णुशिवादयः ।।७६।।
ऋषयो जीविनः सर्वे लीनाः कृष्णे परात्परे ।।
तत्रैव प्रकृतिर्लीना तेन प्राकृतिको लयः ।। ७७ ।।
लये प्राकृतिकेऽतीते पाते च ब्रह्मणो मुने ।।
निमेषमात्रः कालश्च कृष्णस्य परमात्मनः ।। ७८ ।।
एवं नश्यन्ति सर्वाणि ब्रह्माण्डान्यखिलानि च ।।
स्थितौ गोलोकवैकुण्ठौ श्रीकृष्णश्च सपार्षदः ।। ७९ ।।
निमेषमात्रः प्रलयो यत्र विश्वं जलप्लुतम् ।।
निमेषानन्तरे काले पुनः सृष्टिः क्रमेण च ।। 2.7.८० ।।
एवं कतिविधा सृष्टिर्लयः कतिविधोऽपि वा ।।
कतिकृत्वो गतायातः संख्यां जानाति कः पुमान् ।। ८१ ।।
सृष्टीनां च कलानां च ब्रह्माण्डानां च नारद ।।
ब्रह्मादीनां च विध्यण्डे संख्यां जानाति कः पुमान् ।।८२।।
ब्रह्माण्डानां च सर्वेषामीश्वरश्चैक एव सः ।।
सर्वेषां परमात्मा च श्रीकृष्णः प्रकृतेः परः ।। ८३ ।।
ब्रह्मादयश्च तस्यांशास्तस्यांशश्च महाविराट् ।।
तस्यांशश्च विराट् क्षुद्रस्तस्यांशा प्रकृतिः स्मृता ।। ८४ ।।
स च कृष्णो द्विधाभूतो द्विभुजश्च चतुर्भुजः ।।
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ।। ८५ ।।
ब्रह्मादितृणपर्य्यन्तं सर्वं प्राकृतिकं भवेत् ।।
यद्यत्प्राकृतिकं सृष्टं सर्वं नश्वरमेव च ।। ८६ ।।
विद्ध्येकं सृष्टिमूलं तत्सत्यं नित्यं सनातनम् ।।
स्वेच्छामयं परं ब्रह्म निर्लिप्तं निर्गुणं परम् ।। ८७ ।।
निरुपाधिं निराकारं भक्तानुग्रहविग्रहम् ।।
अतीव कमनीयं च नवीनघनसन्निभम्।।८८।।
द्विभुजं मुरलीहस्तं गोपवेषं किशोरकम् ।।
सर्वज्ञं सर्वसेव्यं च परमात्मानमीश्वरम् ।। ८९ ।।
करोति धाता ब्रह्माण्डं ज्ञानात्मा कम लोद्भवः ।।
शिवो मृत्युञ्जयश्चैव संहर्त्ता सर्वतत्त्ववित् ।। 2.7.९० ।।
यस्य ज्ञानाद्यत्तपसा सर्वेशस्तत्समो महान् ।।
महाविभूतियुक्तश्च सर्वज्ञः सर्वदा स्वयम् ।। ९१ ।।
सर्वव्यापी सर्वपाता स दाता सर्वसम्पदाम् ।।
विष्णुः सर्वेश्वरः श्रीमान्यस्य ज्ञानाज्जगत्पतिः ।। ९२ ।।
महामाया च प्रकृतिः सर्वशक्तिमतीश्वरी ।।
यज्ज्ञानाद्यस्य तपसा यद्भक्त्या यस्य सेवया ।। ९३ ।।
सावित्री वेदमाता च वेदाधिष्ठातृदेवता ।।
पूज्या द्विजानां वेदज्ञा यज्ञाद्यस्याश्च सेवया ।। ९४ ।।
सर्वविद्याधिदेवी सा पूज्या च विदुषां पुरा ।।
यत्सेवया यत्तपसा यस्य ज्ञानात्सरस्वती ।। ९५ ।।
यत्सेवया यत्तपसा प्रदात्री सर्वसंपदाम् ।।
धनसस्याधिदेवी सा महालक्ष्मीः सनातनी ।। ९६ ।।
यत्सेवया यत्तपसा सर्वविश्वेषु पूजिता ।।
सर्वग्रामाधिदेवी सा सर्वसम्पत्प्रदा यिनी ।। ९७ ।।
सर्वेश्वरी सर्ववन्द्या सर्वेशं प्राप या पतिम् ।।
सर्वस्तुता च सर्वज्ञा दुर्गा दुर्गतिनाशिनी ।। ९८ ।।
कृष्णवामांशसम्भूता कृष्णप्रेमाधिदेवता ।।
कृष्णप्राणाधिका प्रेम्णा राधिका कृष्णसेवया ।। ९९ ।।
सर्वाधिकं च रूपं च सौभाग्यं मानगौरवम् ।।
कृष्णवक्षस्थलस्थानं पत्नीत्वं प्राप सेवया ।। 2.7.१०० ।।
तपश्चकार सा पूर्वं शतशृङ्गे च पर्वते ।।
दिव्यं युगसहस्रं च निराहाराऽतिकर्शिता ।। १०१ ।।
कृशां निःश्वासरहितां दृष्ट्वा चन्द्रकलोपमाम् ।।
कृष्णो वक्षःस्थले कृत्वा रुरोद कृपया विभुः ।। ।।१०२।।
वरं तस्यै ददौ सारं सर्वेषामपि दुर्लभम् ।।
मम वक्षःस्थले तिष्ठ मयि ते भक्तिरस्त्विति ।। १०३ ।।
सौभाग्येन च मानेन प्रेम्णा वै गौरवेण च ।।
त्वं मे श्रेष्ठा परं प्रेम्णा ज्येष्ठा त्वं सर्वयोषिताम् ।। १०४ ।।
वरिष्ठा च गरिष्ठा च संस्तुता पूजिता मया ।।
सन्ततं तव साध्योऽहं बाध्यश्च प्राणवल्लभे ।। १०५ ।।
इत्युक्त्वा जगतां नाथश्चक्रे तच्चेतनां ततः ।।
सपत्नीरहितां तां च चकार प्राणवल्लभाम् ।। १०६ ।।
येषां या याश्च देव्यो वै पूजितास्तस्य सेवया ।।
तपस्या यादृशी यासां तासां तादृक्फलं मुने ।। १०७ ।।
दिव्यं वर्षसहस्रं च तपस्तप्त्वा हिमालये ।।
दुर्गा च तत्पदं ध्यात्वा सर्वपूज्या बभूव ह ।। १०८ ।।
सरस्वती तपस्तप्त्वा पर्वते गन्धमादने ।।
लक्षवर्षं च दिव्यं च सर्ववन्द्या बभूव सा ।। १०९ ।।
लक्ष्मीर्युगशतं दिव्यं तपस्तप्त्वा च पुष्करे ।।
सर्वसम्पत्प्रदात्री सा चाभवत्तस्य सेवया ।।2.7.११० ।।
सावित्री मलये तप्त्वा द्विजपूज्या बभूव सा ।।
षष्टिवर्षसहस्रं च दिव्यं ध्यात्वा च तत्पदम् ।।१११।।
शतमन्वन्तरं तप्तं शंकरेण पुरा विभो ।।
शतमन्वन्तरं चैव ब्रह्मणा तस्य भक्तितः ।। ११२ ।।
शतमन्वन्तरं विष्णुस्तप्त्वा पाता बभूव ह ।।
शतमन्वन्तरं धर्मस्तप्त्वा पूज्यो बभूव ह ।।११३।।
मन्वन्तरं तपस्तेपे शेषो भक्त्या च नारद ।।
मन्वन्तरं च सूर्य्यश्च शक्रश्चन्द्रस्तथा गुरुः ।। ११४ ।।
दिव्यं शतयुगं चैव वायुस्तप्त्वा च भक्तितः ।।
सर्वप्राणः सर्वपूज्यः सर्वाधारो बभूव सः ।।११५।।
एवं कृष्णस्य तपसा सर्वे देवाश्च पूजिताः ।।
मुनयो मानवा भूपा ब्राह्मणाश्चैव पूजिताः ।। ११६ ।।
एवं ते कथितं सर्वं पुराणं च तथाऽऽगमम् ।।
गुरुवक्त्राद्यथा ज्ञातं किं भूयः श्रोतुमिच्छसि ।। ११७ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारद नारायणसंवादे युगतन्माहात्म्यमन्वन्तरकालेश्वरगुणनिरूपणं नाम सप्तमोऽध्यायः ।। ७ ।।