पृष्ठम्:भामती.djvu/६४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ३ पा. २६.३५]
[६४३]

उपदेशे ऽपि यथा भेदो न भवति स आत्मा तत्त्वमसि । शवेतकेन इत्यत्र तथेचाप्यभेद इति युक्तम् । भूय एव मा भगवान् विज्ञापयत्विति हि तत्र श्रूयते तेनाभेदो युज्यते । न चेह तथास्ति । तेन यद्यपीदा वेद्याभेदोऽवगम्यते तथा येकत्र तस्यैव अशनायादिमात्रात्ययोपाधेरुपासनादेकत्र च कार्यकरणविरहोपाधेरुपासनाद्दिद्याभेद एवेति प्राप्ते प्रत्यु च्यतं । नैतदुपासनाविधानपरमपि तु वस्तुखरूपप्रतिपादन पंरं प्रश्नप्रतिवचनालोचनेनोपलभ्यते । किमतो यद्येवमेत दतो भवति । विधेरप्राप्तप्रापणार्थत्वात् प्राप्तावनुपपत्तिः । वस्तुखरूपं तं पुनपुनरुचमानमपि न दोषमावहति । शतकृत्वेपि चि पथ्यं वदन्त्यामाः । विशेषतस्तु वेदः पिढ भ्यामप्यभ्यर्दितः । न च सर्वथा पैनस् तयम् । एकत्राशना याद्यत्ययादन्यत्र च कार्यकारण( १) प्रविश्यात्तस्मादेका विद्या । प्रत्यभिज्ञानात् । उभाभ्यामपि विद्याभ्यां भिच.आ- त्मा प्रतिपाद्यते इति यो मन्यते पूर्वपक्षैकदेशी तं प्रति स र्वान्तरत्वविरोधो दर्शितः ।

अन्यथा भेदानुपपत्तिरिति चेन्नपदेशान्तरवत् ॥ ३६ ॥

इत्यस्य तु पूर्वपक्षतत्त्वाभिप्रायो दर्शितः सुगममन्यत् । व्यतिहारो विशिंषन्ति हीतरवत्॥३७ उधृष्टस्य निकृष्टरूपापत्तेर्नेभराभयरूपानुचिन्तनम् । अपि तु निकृष्टे जीवउत्कृष्टरूपाभेदचिन्तनमेवं चि निकृष्ट


(१) करणेति पा०- १ । ३

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६४६&oldid=141697" इत्यस्माद् प्रतिप्राप्तम्