पृष्ठम्:भामती.djvu/६३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.पा३ इः२८]
[६२३]

सम्भवत्यर्थान्तरोपवर्णनमसङ्गत(१)मेवेति ।

गतेरर्थवत्त्वमुभयथान्यथा स हि विरोधः ॥ २९ ॥

यथा हानिसन्निधावपायनमन्यत्र भृतमिति । यत्रापि के वला खनिः अयने सत्रापि उपायनपस्थापयत्येवं तत्संनि धावेव देवयानः पन्थाः श्रुत इति यत्रापि सुकृतदुष्कृत हानिः केवला धृता तच्चापि देवयानं पन्थानमुपस्थापयितु मर्चति । न च निरञ्जनः परमं साम्यमुपैतीत्यनेन विरोधः । देवयानेन पथा अह्मलोकप्राप्तं निरञ्जनस्य परमसाम्योप पत्तेः । तस्माद्वानिमात्रे देवयानः पन्थाः संबध्यतइति प्राप्त म् । एवं प्राप्तउच्यते । विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैननि दि बिंदुषो विधूतपुण्यपापैस्य विद्यया क्षेमप्राप्तिमाह ।भ्रमनिबन्धनो ऽक्षेमो याथात्म्यज्ञानलक्षणया विद्यया विनिवर्तनोयः । नासै । देशविशेषमपेक्षते । नदि जातु रजै सर्पभ्रमनिवृत्तये समुत्पन्नं रज्जुतत्त्वज्ञानं देश विशशेषमपेक्षते । विद्योत्पादस्यैव स्खविरोध्यविद्यानिवृत्तिरूप त्वात् । न च विद्योत्पादाय ब्रह्मलोकप्राप्तिरपेशणया । यमनियमादिविशुद्धसत्वस्येसैव अवणादिभिर्विद्योत्पादात् । यदि परमारब्धकार्य(२)कर्मशपणाय शरीरपातावध्यपेक्षेति न देवयानेनास्तीह यथार्थ इति श्रुतिहर्यविरोधात् नापेक्षि तव्य इति । अस्ति तु पर्यङ्गविद्यायां तस्यार्थ इत्युक्तं द्वितीयेन


(१) अयुक्तमिति पा० 3 ।
(२) कार्यात २ पुस्तके नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६३६&oldid=141679" इत्यस्माद् प्रतिप्राप्तम्