परे तस्यास्ति स्वातन्त्र्यम्, तस्मात्तद्विरोधः ।
छन्दत उभयाविरोधात् ॥ २८॥
केभ्यश्चित्पदेभ्य इदं सूत्रम् । ननु यथा परे तस्योत्तरेण यथा ब्रह्मप्राप्तिर्भवतीति विद्याफलमेवं तस्यैवार्द्धपथे सुकृत दुष्कृतद्वनिरपि भविष्यतीति शङ्करपदानि तेभ्य उत्तरमिदं सूत्रम् । तद्यचटे । ‘यदि च देहादपप्तस्येति । विद्या फलमपि ब्रह्मप्राप्तिर्नापरे तस्य भवितुमर्हति शङ्कापदेभ्यः। यथाहुः । नाजनित्वा तत्र गच्छन्तीति । सुकृतदुष्कृतप्रज्ञ यस्तु सत्यपि नरशरीरे सम्भवतीति समर्थस्य हेतोर्यमनिय मादिसचिताया विद्यमानायाः कार्यशययोगाद्युक्तो जीवत एव सुकृतदुष्कृत क्षय इति सिद्धम्। छन्दतःस्वच्छन्दतः खेच्छ येति यावत् । स्वेच्छयानुष्ठानं यमनियमादिसहिताया वि द्यायास्तस्य जीवतः पुरुषस्य स्यान्न मृतस्यतत्पूर्वकश्च सुकृ तदुकृतहानं स्याज्जीवत एवा समथस्य शंपायोगात् । एवं करणानन्तरड्यंत्यादे सति निमित्तनैमित्तकयोस्तद्भावस्य पपत्तिस्तण्डिशाट्यायनिभृत्येश्च सङ्गतिरितरथा स्वातन्त्र्या भावेनासङ्गत्तिरुक्ता स्यात् । तदनेनोभयाविरोधो व्याख्या तः । ये । तु परस्य विदुषः सुकृतदुष्कृते कथं परत्र सङ्गर म(१)त इति शङ्कोत्तरतया सूत्रं व्याचख्युः । छन्दतः स इस्पत इति श्रुतिस्भृत्योरविरोधादेव(२)। न त्वत्रागमगयेथे स्वातन्त्र्येण युक्तिर्निवेशनीयेति । तेषामधिकरणशरीरानुप्रवेशे
(१) संक्रमैते इति पा० २ ।8
(२) एवं नवत्रेति पा० २ | 3