पृष्ठम्:भामती.djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-२:४९]
[भामती]
[४६६]

करणाधिष्ठानं च पुरुषस्य खभोगादावेव दृष्टं नान्यत्र । नचि बाचं कुठाराद्यपरिदृष्टं व्यापारयन् कश्चिदुपलभ्यते । तस्माद्वैपादिधीनं करणं व्यापारयत ईश्वरस्य भोगादिप्रस क्तिस्तथा चानश्वरत्वमिति भावः । कल्पान्तरमाथ । "अ- न्यथेति । पूर्वमधिष्ठितिरधिष्ठानमिदानों तु अधिष्ठानं भो गायतनं शरीरमुक्तम् । तथा भोगादिप्रसङ्गनानीश्वरत्वं पूर्वमापादितम् । संप्रति तु शरीरित्वेन भोगादिप्रसङ्गाद नश्वरत्वमुक्तमिति विशेषः ।

अन्तवत्वमसर्वज्ञता वा ॥ ४१ ॥

अपि च सर्वत्रानुमानं प्रमाणयतः प्रधानपुरुषेशवराणा मपि संख्याभेदवचमन्तत्रत्वं च द्रव्यत्वात् । संख्यान्यत्वे सति प्रमेयत्वादानुमातव्यं ततश्चान्तवत्वमसर्वज्ञता वा । अस्माकं त्वागमगम्येरै तबाधितविषयतया नानुमानं प्रभ वतीति भावः । खरूपपरिमाणमपि यस्य यादृशमणुमइ त्परममचवें खं चेति । अथ मा भूदेष दोष” इत्यु तरो विकल्पो यस्यान्तोस्ति तस्यान्तवत्वाचवणमसर्वज्ञता मापादयेत् । यस्य चन्त एव नास्ति तस्य तदग्रचणं ना सर्वज्ञतामावचति नचि शशविषाणाद्यज्ञानादज्ञो भवतीति भावः । परिहरति । "तत” इति । आगमानपेक्षस्यानुमा नमेषामन्तवश्वमवगमयतीत्युक्तम् ॥

उत्पत्यसंभवत ॥ ४२ ॥

अन्यत्र वेदाविसंवादाद्यत्रांशे विसंवादः स निरस्यते, त

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४७१&oldid=141253" इत्यस्माद् प्रतिप्राप्तम्