सामग्री पर जाएँ

पृष्ठम्:भामती.djvu/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-२ पा-२३.४२]
[४६७]

मंशमाच। “यत्पुनरिदमुच्यते” । “वासुदेवात्संकर्षण जोव’ इति जीवस्य कारणवषवे सत्यनित्यस्वमनित्यत्वे परलोकि नो ऽभावात्परलोकाभावः । ततश्च खर्गनरकापवर्गाभावाप तेनाभावापत्तेर्नास्तिक्यमित्यर्थः । अनुपपन्न च जीवस्ये त्यत्तिरित्यक्ष । 'प्रतिषेधिष्यते चे”ति ॥

न च कर्तुः करणम ॥ ४३ ॥

यद्यप्यनेकशिल्पपर्यवदातः परशूरं कृत्वा तेन पलाशं छिनत्ति । यद्यपि च प्रयत्नेनेन्द्रियार्थात्ममनःसंनिकर्षल क्षणं ज्ञानकरणमुपादायात्मरथं विजानाति | तथापि संक ' र्षण ऽकरणः कथं प्रद्युम्नाख्यं मनःकरणं कुर्यात् । अक रणस्य वा करणनिर्माणसामध्ये कृतं करणनिर्माणेनाकर णादेव निखिलकार्यसिद्धेरिति भावः ।

विज्ञानादिभावे वा तदप्रतिषेधः ॥७७॥

वासुदेवा एवैते संकर्षणादयो "निर्देषा", अविद्यादिदो परचिताः । ‘निरधिष्ठानाॐ निरुपादाना अत एव "निर वद्या’ अनित्यत्वादिदोषरहिताःतस्मादुत्पच्यसंभवोनुगुण त्वान्न दोष इत्यर्थः । अत्रोच्यते । ‘एवमपी’ति । मा - दभ्युपगमे न दोषः प्रकारान्तरेण त्वयमेव दोषः । प्रश्नपूर्वं प्रकारान्तरमाश्च । "कथं यदि तावदिति । न तावदेते परस्परं भिन्न ईश्चराः परस्परव्याइनेछ भवितुमर्वन्ति । व्याइतकामत्वे च कार्यानुपादान् । अव्याचतकामत्वे वा प्रत्येकसीवर एकेनैवेशनायाः कृनांवादानर्थक्यमितरेषाम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४७२&oldid=141254" इत्यस्माद् प्रतिप्राप्तम्