प्तिपूर्विका दि प्राप्तिः संयोगो न सर्वगतानां संभवत्यप्रा तेरभावान्निरवयवत्वाच्च । अव्याप्यवृत्तिता द्दि संयोगस्य । खभावो न च निरवयवेबच्याप्यवृत्तिता संयोगस्य से संभव तीत्युक्तम् । तस्मादव्याप्यवृत्तितायाः संयोगस्य व्यापिकाया निवृत्तेस्तद्यप्यस्य संयोगस्य विनिवृत्तिरिति भावः । नापि समवायलक्षणः । स ह्ययुतसिद्धानामाधाराधेयभूतानामिव प्रत्ययदृतुः संबन्ध इत्यभ्युपेयते न च प्रधानपुरुषेशवराण मिथोस्त्याधाराधेयभाव इत्यर्थः । नापि योग्यतालक्षणः का यंगम्यसंबन्धे इत्याच । ‘नाप्यन्य” इति । नदि प्रधानस्य महदहंकारादिकारणत्वमद्यापि सिद्धमिति शङ्कते । ‘ब्रह्म वादिन" इति । निराकरोति। "न” कुतस्तस्य मते ऽनिर्व चनयतादात्म्यचक्षणसंबन्धोपपत्तेः । “अपि चे”ति । आ गमो चि प्रवृत्तिं प्रति न दृष्टान्तमपेक्षतइत्यदृष्टपूर्वं तद्वि रुद्रे च प्रवर्ततुं समर्थः । अनुमानं तु दृष्टानुसारि नैवं विधे प्रवर्ततुमर्हतीति , शङ्कते । “परस्यापी”ति । परिहरति । “नेति । अस्माकं त्वीश्वरागमयोरनादित्वादीश्वरयोनित्वे प्यागमस्य न विरोध इति भावः ॥
अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥
यथादर्शनमनुमानं प्रवर्तते नालैकिकार्थविषयमितीच पि न प्रकर्तव्यम् । सुगममन्यत् ।
करणवच्चेन भोगादिभ्यः ॥ ४० ॥
"रूपादिशनमिति । अनुह्नरूपमित्यर्थः । रूपादिचीन