पृष्ठम्:भामती.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भमती]
[अ.२ पा.२ ष.१८]
[४१५]

ये तदप्राप्तिस्तस्य समुदायस्यायुक्तता । कुत, "समुदायि नामचेतनत्वात्” । चेतने चि कुलालादिः सर्वे वदण्डा युषसंश्रत्य समुदायात्मकं घटमारचयन् दृष्टः । नह्यासति । स्वद्दण्डादिव्यापारिणि विदुषि () कुलाई स्वयमचेतना म्डद्दण्डादयो व्यापृत्य जातु घटमारचयन्ति । न चासति कुविन्दे तन्तुवमादयः पटं वयन्ते । तस्मात्कायपादस्तद नुगुणकारणसमवधानाधीनस्तदभावे न भवति । कार्ये पादानुगुणं च कारणसमवधानं चेतनप्रेक्षाधीनमसत्यां चे तनप्रेशयां न भवितुमुत्सद्धतइति काणैस्पत्तिचेतनप्रेशाधी नत्वव्याम्ना व्यापकविरुदोपलब्ध्या चेतनानधिष्ठितेभ्यः कार णेभ्यो व्यावर्तमाना चेतनाधिष्ठितत्वएवावतिष्ठत२)इति प्रतिबन्धसिद्धिः । यद्युच्चेत अह्वा चेतनाधनेच कायत्प त्तिरस्ति तु चित्तं चेतनं तीन्द्रियादिविषयस्पर्श (२) स त्यभिज्वलन् तत्कारणचक्रे यथायथा कम्यय पर्याप्तं त यातथा प्रकाशयदचेतनानि कारणान्यधिष्ठाय कार्यमभिनि र्वर्तयतीति तत्राच । "चित्ताभिञ्चलनस्य च समुदायसिद्ध धानत्वात्” । न खलु बाह्याभ्यन्तरसमदायसिद्दिमन्तरेण चित्ताभिच्चदानं ततस्तु तामिच्छन् दुरुत्तरमितरेतराश्रयमा विशेदिति । न च प्रोग्भवीया चित्ताभिदीप्तिरुत्तरसमुदायं घटयति । घटनसमये तस्याश्चिरातीतत्वेन सामर्थविरच


(१) व्यापारविदुषि-पा० १ ।
(२) म्यवतिष्ठत–पा १ २ ।
(३) संयम–पा० २ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४२०&oldid=141165" इत्यस्माद् प्रतिप्राप्तम्