विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २९१-२९५

विकिस्रोतः तः
← अध्यायाः २८६-२९० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २९१-२९५
वेदव्यासः
अध्यायाः २९६-३०० →

3.291
।। हंस उवाच ।।
गावः पवित्रा मङ्गल्या गोषु लोकाः प्रतिष्ठिताः ।।
यथा देवा यथा वेदा ब्राह्मणाश्च यथा द्विजाः ।। १ ।।
तथा गावो विनिर्दिष्टाः सर्वलोकसुखावहाः ।।
एकैकं ब्राह्मणं ज्ञेयं तयोर्यज्ञः प्रतिष्ठितः ।। २ ।।
विप्रेषु मन्त्रास्तिष्ठन्ति गोषु सन्तिष्ठते हविः ।।
गवां दानं द्विजश्रेष्ठा दुष्कृतान्यपकर्षति ।।३।।
गोमूत्रं गोमयं क्षीरं दधि सर्पिश्च पञ्चमम् ।।
पवित्रमेतन्निर्दिष्टं नराणां शोधनं परम् ।। ४ ।।
मङ्गल्याश्च पवित्राश्च रक्षोघ्ना रोचनास्तथा ।।
तासां शृङ्गोदकं विप्रा जाह्नवीसलिलोपमम् ।। ५ ।।
गवां काण्डूयनान्मर्त्यः सर्वं पापं व्यपोहति ।।
तासां ग्रासप्रदानेन महत्पुण्यमवाप्नुयात् ।। ६ ।।
तासां च प्रचरं कृत्वा तथैव सलिलाशयम् ।।
स्वर्गलोकमुपाश्नन्ति बहून्यब्दगणानि तु ।। ७ ।।
तासां प्रचारभूमिं तु कृत्वा प्राप्नोति मानवः ।।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ।। ८ ।।
तासामावसथं कृत्वा नगराधिपतिर्भवेत् ।।
तथा लवणदानेन सौभाग्यं महदश्नुते ।। ९ ।।
आतुरां पङ्कलग्नां वा चोरव्याघ्रभयार्दिताम् ।।
मोक्षयित्वा द्विजश्रेष्ठास्त्वश्वमेधफलं लभेत् ।। 3.291.१० ।।
तासामौषधदानेन विरोगस्त्वभिजायते ।।
विप्रमोच्य भयेभ्यश्च न भयं विद्यते क्वचित् ।। ११ ।।
क्रीत्वा चण्डालहस्ताच्च गोमेधस्य फलं लभेत् ।।
गोपकस्त्वस्य चान्यस्य क्रीत्वा हस्तात्तथैव च ।। १२ ।।
कृत्वा शीतातपत्राणं तासां स्वर्गमवाप्नुयात् ।।
उत्थितासूत्थितस्तिष्ठेद्विष्ठितासु च विष्ठितः ।। १३ ।।
भुक्तवत्सु तु चाश्नीयाज्जले पीते पिबेत्तु च ।।
गोमूत्रेणाचरेत्स्नानं गोपुरीषात्तथा यवैः ।। १४ ।।
शरीरयात्रां कुर्वीत गोरसैरथ वा द्विजाः ।।
एतद्धि गोव्रतं मासात्सर्वकल्मषनाशनम् ।। १५ ।।
एकां गां धारयेन्मासं दद्यात्तस्यास्तथा यवान् ।।
गोमयात्तान्समश्नीयान्मासमेकमतः शुचिः ।। १६ ।।
मासान्ते तां तथा धेनुं दद्याद्विप्राय भक्तिमान् ।।
व्रतमेतत्समुद्दिष्टं सर्वकल्मषनाशनम् । ।। १७ ।।
राजसूयाश्वमेधाभ्यां व्रतमेतत्तथाधिकम् ।।
व्रतेनानेन चीर्णेन कामानिष्टानवाप्नुयात् ।। १८ ।।
विमानेनार्कवर्णेन ब्रह्मलोकं च गच्छति ।।
विनापि गोप्रदानेन व्रतमेतन्महाफलम्।।१९।।
त्रिरात्रं सप्तरात्रं वा शक्तिं ज्ञात्वा तथा स्वकाम्।।
गवां निर्हारनिर्मुक्तैर्वृत्तिं कृत्वा तथा यवैः।।3.291.२०।।
पापमोक्षमवाप्नोति पुण्यं च महदश्नुते ।।
रजश्च गोखुरोद्भूतं सर्वकल्मषनाशनम् ।।२१।।
यादृशात्तादृशाद्देशान्नात्र कार्या विचारणा ।।
मङ्गल्यं च पवित्रं च तदलक्ष्मीविनाशनम् ।।२२।।
गवां हि परिवासेन भूमिः शुद्धिमवाप्नुयात् ।।
तद्धि शुद्धं यदा वेश्म यत्र तिष्ठन्ति धेनवः ।।२३।।
तासान्निःश्वासवातेन पुरं नीराजनं भवेत् ।।
तासां संस्पर्शनं पुण्यं दुःस्वप्नाघविनाशनम्।।२४।।
ग्रीवामस्तकसन्धौ तु तासां गङ्गा प्रतिष्ठिता ।
सर्वदेवमया गावः सर्व तीर्थमयास्तथा।।२५।।
तासां लोमानि पुण्यानि पवित्राणि तथा द्विजाः ।।
गोमयेनोपलिप्तं तु शुचि स्थानं प्रकीर्तितम् ।। २६ ।।
अग्न्यागारसुरागारान्गोमयेनोपलेपयेत् ।।
गोमये तु सदा लक्ष्मीः स्वयमेव व्यस्थिता ।।२७।।
गोमूत्रे च तथा गङ्गा दधिक्षीरघृतेषु च ।।
सदा व्यवस्थितं सोमं रोचनायां सरस्वती।।२८।।
विष्णुर्यज्ञः समाख्यातः स च गोषु प्रतिष्ठितः ।।
तस्माद्गावो विनिर्दिष्टा विष्णुरेव पुरातनैः ।। २९ ।।
पूज्यास्तास्तु नमस्कार्याः कीर्तनीयाश्च तास्तथा ।।
तासामाहारदानं च कार्यं शुश्रूषणं तथा।।3.291.३०।।
शुश्रूषणेनेह गवां द्विजेन्द्राः प्राप्नोति लोकानमलान्विशोकान्।।
तस्मात्प्रयत्नेन गवां हि कार्यं शुश्रूषणं धर्मपरैर्मनुष्यैः।।३१।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० सं० मुनीन्प्रति हंसगीतासु गोशुश्रूषा नामै कनवत्यधिकद्विशततमोऽध्यायः।।२९१।।
3.292
हंस उवाच ।।
यो दयावान्स पुरुषो निर्घृणो राक्षसो मतः ।।
राक्षसानामपि घृणा विद्यते द्विजसत्तमाः ।। ।।१।।
निर्घृणाः प्रतिपद्यन्ते घोरं नरकमञ्जसा ।।
वधबन्धपरिक्लेशान्मानुष्येऽथ लभन्ति ते ।।२।।
व्याध्यार्ता दुःखिता दीना दरिद्राश्च भवन्ति ते ।।
दयान्विता विराजन्ते नाकमासाद्य मानवाः ।।३।।
तस्माद्दयावता भाव्यं तृणेष्वपि विपश्चिता ।।
तृणान्यपि सजीवानि तेषां कुर्यान्न पीडनम् ।। ।। ४ ।।
कीटे पतङ्गे च पशौ दया कार्या तथा मृगे ।।
वर्णोत्तमे वर्णहीने पतिते वर्णसङ्करे ।। ५ ।।
सर्वत्रैव दया कार्या सर्वकामफलप्रदा ।।
व्रतानामपि सर्वेषां श्रेष्ठमेकं दयाव्रतम् ।। ६ ।।
दुःखार्तं प्राणिनं किञ्चिदुःखान्मोक्षयते द्विजाः ।।
वह्निष्टोमफलं प्रोक्तं नात्र कार्या विचारणा ।। ७ ।।
परिचर्यां तथा कृत्वा सान्त्वयेत्प्राणिनो द्विजाः।।
ब्रह्मलोकमवाप्नोति दयावान्तेन कर्मणा ।। ८ ।।
श्लेष्ममूत्रपुरीषाणां व्याधितस्याजुगुप्सकः ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।।९।।
मृतस्य वाप्यनाथस्य न जुगुप्सन्ति ये नराः ।।
कुर्वन्ति चैव संस्कारान्ते नराः स्वर्गगामिनः ।।3.292.१०।।
अग्निदाहाज्जलाच्छस्त्रात्तथान्यस्मादुपद्रवात् ।।
प्राणिनो मोक्षणं कृत्वा स्वर्गलोके महीयते ।। ११ ।।
बन्धनात्प्राणिनः कृत्वा मोक्षणं च तथा द्विजाः।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते।।१२।।
यस्माद्धि प्राणिनं दुःखात्पुरुषो मोक्षयेत्क्वचित्।।
न तद्दुःखमवाप्नोति यत्रयत्राभिजायते ।।१३।।
सर्वभूतेषु यो दानं चैकसत्त्वे च या दया ।।
सर्वसत्त्वप्रदानाद्धि दया ज्ञेया महाफला।।१४।।
दयान्वितानां त्रिदशेन्द्रलोका दयान्वितानां च पितामहस्य ।।
दयान्वितानां च समस्तकामा लोकद्वये विप्रवरा प्रदिष्टाः।।१५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दयावर्णनो नाम द्विनवत्यधिकद्विशततमोऽध्यायः ।। २९२ ।।
3.293
।। हंस उवाच ।। ।।
दाक्षिण्यं परमं लोके नृणां संवननं परम् ।।
दाक्षिण्ययुक्तस्य तथा परेषां प्रियकारिता ।। १ ।।
प्रियाण्याचरते यस्तु परेषां मनुजोत्तमः ।।
समाप्नोति प्रियाण्येव लोकयोरुभयोर्द्विजाः ।। २ ।।
प्रत्यक्षं च परोक्षं च परेषामाचरेत्प्रियम् ।।
प्रियेण विप्रियं हंति प्रियेण प्रियमाप्नुयात् ।। ३ ।।
मृदुना दारुणं हन्ति मृदुना हंति मार्दवम् ।।
सर्वं हि मृदुना हन्ति तस्मात्तीक्ष्णतरो मृदुः ।। ४ ।।
मृदोरिह वदान्यस्य देवा निघ्नन्ति शात्रवान् ।।
अभिचारः स शत्रूणां नरस्य मृदुता तथा ।।५।।
नरेण मृदुना दग्धा मार्दवेनाभितस्तु ये ।।
न प्ररोहंति ते विप्रा बीजा दग्धा यथा तथा ।। ६ ।।
दाक्षिण्यमेकं सुभगत्वहेतुर्दाक्षिण्यमेकं त्रिदिवस्य हेतुः ।।
दाक्षिण्यमास्थाय जयेदरातीन्दाक्षिण्ययुक्तस्तु सदा भवेच्च।।७।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखंडे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दाक्षिण्यवर्णनो नाम त्रिनवत्यधिकद्विशततमोऽध्यायः ।। २९३ ।।
3.294
।। हंस उवाच ।। ।।
संरोहतीषुणाविद्धं वनं परशुना हतम् ।।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्कृतम् ।। १ ।।
मित्राणि यांति शत्रुत्वं नरस्याप्रियवादिनः ।।
अनर्थाः स्वयमायांति मृतो नरकमृच्छति ।। २ ।।
तस्माद्भाव्यं मनुष्येण स्मितपूर्वाभिभाषिणा ।।
प्रत्यक्षं च परोक्षं च सर्वेषां प्रियभाषिणाम् ।। ३ ।।
मित्रतां यांति रिपवो नराणां प्रियभाषिणाम् ।।
रक्षांस्यपि निगृह्यन्ते पुरुषैः सान्त्ववादिभिः ।। ४ ।।
प्रियवाक्यात्परं लोके नास्ति संवननं परम् ।।
प्रियो भवति लोकानां प्रियवादी तथा नरः ।। ५ ।।
प्रियंवदानां सकलं जगदेतत्स्थितं वशे ।।
प्रियंवदानां शत्रुत्वे नास्ति कश्चिज्जगत्त्रये ।। ६ ।।
प्रियंवदाः सौख्यमिहाप्नुवंति प्रियंवदा नाकमथ प्रयांति ।।
प्रियंवदाः सर्वमथाप्नुवंति प्रियंवदः स्यादत एव नित्यम् ।।७।।
इति श्रीविष्णुधर्मोत्तरे तृ० खंडे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु प्रियंवदप्रशंसा नाम चतुर्नवत्यधिकद्विशततमोऽध्यायः ।। २९४ ।।
3.295
।। हंस उवाच ।।
अलसानां मनुष्याणां सदा दुःखं दरिद्रता ।।
आलस्यं पातकं लोके आलस्यं भूतिनाशनम् ।। १ ।।
नाधिगच्छन्ति भोक्तव्यमलसा ये नराधमाः ।।
अलसानां मनुष्याणां प्राप्तोप्यर्थो विनश्यति ।।२।।
तस्मान्नित्यं मनुष्येण दाक्ष्यं कार्यं विजानता ।।
दक्षः सर्वमवाप्नोति यत्किञ्चिन्मनसेच्छति ।। ३ ।।
धर्मे चार्थे च कामे च मोक्षे च द्विजसत्तमाः ।।
भाजनं सर्वकालेषु दक्ष एव सदा नरः।।।।
आकृष्य दक्षः केशेषु विमुखामपि च श्रियम् ।।
स्वीकरोति महाभागा दक्षे सर्वं प्रतिष्ठितम् ।। ५ ।।
उत्थानधीरः पुरुषो वाग्वीरानधितिष्ठति ।।
उत्थानधीरं वाग्धीरा रमयन्त उपासते ।। ६ ।।
उत्थानवानेव दिवं प्रयाति उत्थानवानेव परं पदञ्च ।।
उत्थानवानेव नरो जयी स्यात्तस्मात्सदोत्थानपरेण भाव्यम् ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु उत्थानप्रशंसा नाम पञ्चनवत्यधिकद्विशततमोऽध्यायः ।। २९५ ।।