विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २८६-२९०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः २८१-२८५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः २८६-२९०
वेदव्यासः
अध्यायाः २९१-२९५ →

3.286
हंस उवाच ।।
सर्वकर्मप्रधानस्य व्यवसायस्य मानदाः ।।
मूलमेकं विनिर्दिष्टं संकल्पो नात्र संशयः ।। १ ।।
संकल्पमूलः कामो वै ज्ञानं संकल्पबन्धनम् ।।
संकल्पबन्धना वेदा धर्मः सङ्कल्पबन्धनः ।। २ ।।
संकल्पबन्धनश्चार्थो मोक्षः संकल्पबन्धनः ।।
संकल्पबन्धनं सर्वं जगदेतच्चराचरम् ।। ३ ।।
आदौ निश्चित्य यत्कर्म मनसा बुद्धिमान्नरः ।।
युनक्ति व्यवसायेन पश्चाज्ज्ञेयः स पंडितः ।। ४ ।।
यावन्तो निश्चितास्त्वर्था मनसा केनचित्क्वचित् ।।
तावन्न शक्यते कर्तुं संकल्पोऽतः परो मतः ।। ५ ।।
संकल्पितानां मनसा तु पूर्वं सिद्धिः प्रदिष्टा व्यवसाययुक्ता ।।
कार्याणि सर्वाणि ततस्तु लोके संकल्पमूलानि वदंति सन्तः ।। ६ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु संकल्पनिर्वचनो नाम षडशीत्युत्तरद्विशततमोऽध्यायः ।। २८६ ।।
3.287
ऋषय ऊचुः ।।
नैःश्रेयसपदावाप्तौ प्रत्याहारस्त्वयेरितः ।।
धारणाध्यानयोगश्च समाधिरपि चोत्तमा ।। १ ।।
भूय एव त्वमाचक्ष्व नृणां संसारसारिणाम् ।।
हितार्थमुत्तमं मार्गं लोकद्वयसुखावहम् ।। २ ।।
।। हंस उवाच ।। ।।
अग्निर्मुखं देवतानां सर्वभूतपरायणम् ।।
तस्य शुश्रूषणादेव सर्वान्कामान्समश्नुते ।। ३ ।।
सा मूर्तिः परमा विष्णोस्तद्दत्तं प्राप्नुते रविः ।।
सूर्याद्वृष्टिस्ततस्त्वन्नमन्नात्प्रभवते जगत् ।। ४ ।।
अधःप्रवर्षिणो देवा भौमास्तूर्ध्वं प्रवर्षिणः ।।
ऊर्ध्वप्रवर्षिणं मुख्यं भौमं दत्तं हुताशने ।। ५ ।।
ॐकारं पूर्वमुद्दिश्य यांयां विप्रस्तु देवताम् ।।
हविर्जुहोति सा तस्य प्रीता भवति नित्यदा ।। ६ ।।
वह्निदत्तेन हविषा तृप्तिमायान्ति देवताः ।।
तास्तृप्तास्तर्पयन्त्येनं नरं कामसमृद्धिभिः ।। ७ ।।
सूर्ये होमः परः पुण्यस्तेन स्वर्गे महीयते ।।
तस्मादष्टगुणं पुण्यमिध्मभिः प्राप्नुयाद्धुते ।। ८ ।।
तस्माद्दशगुणं सस्यैर्व्रीहिभिर्द्विगुणं ततः ।।
तावदेव तथा पुण्यं होमे सिद्धार्थकैः स्मृतम् ।। ९ ।।
यवैश्चतुर्गुणं तस्मात्तिलैर्दशगुणं ततः ।।
तावदेव फलं ज्ञेयं बिल्वैर्दशगुणं ततः ।। ।। 3.287.१० ।।
पद्मैश्च तावदेवोक्तं दध्ना क्षीरेण च द्विजाः ।।
परमान्नेन धर्मज्ञा घृतेनाष्टगुणं ततः ।। ११ ।।
मन्त्रेणोङ्कारपूतेन स्वाहान्तेन विचक्षणः ।।
स्वाहावसाने जुहुयाद्ध्यायन्वै मन्त्रदेवताम् ।। १२ ।।
यया त्वङ्गुलिपर्वाणि पूर्यन्ते तावदाहुतिः ।।
अङ्गुष्ठमात्रं स्थौल्येन वितस्तिश्चेध्म इष्यते ।। १३ ।।
दुःस्वप्ने च दुरिष्टे च दुर्निमित्ते तथैव च ।।
नास्ति होमसमन्त्राणं तथा पापविनाशनम् ।। १४ ।।
होमेन पापं पुरुषो जहाति होमेन नाकं च तथा प्रयाति ।।
होमस्तु लोके दुरितं समग्रं विनाशयत्येव न संशयोऽत्र ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु होमविधिवर्णनो नाम सप्ताशीत्युत्तरद्विशततमोऽध्यायः ।। २८७ ।।
3.288
हंस उवाच ।।
दैवाधीना प्रजाः सर्वा देवायत्तमिदं जगत् ।।
सुखदुःखे मानुषाणां देवायत्ते तथैव च ।। १ ।।
देवैर्विहितमश्नन्ति मनुष्यास्तु शुभाशुभम् ।।
तस्मात्सर्वप्रयत्नेन देवपूजापरो भवेत् ।। २ ।।
देवाश्च भक्त्या तुष्यन्ति श्रद्धया परया तथा ।।
पूजिताः शुचिना चैव देवास्तुष्यन्ति नान्यथा ।। ३ ।।
देवशुश्रूषया स्वर्गो देवशुश्रूषया सुखम् ।।
देवशुश्रूषया राज्यं मोक्षं चाप्यथवाप्यते ।। ४ ।।
देवताः कामयन्तीह तथा भक्तं जनं सदा ।।
भक्तानुकम्पिनो देवाः परत्रेह तथा ध्रुवम् ।। ५ ।।
त्राणं कुर्वन्ति भक्तस्य ध्रुवं देवा द्विजोत्तमाः ।।
देवतोषादवाप्नोति यान्कामान्मनसेच्छति ।। ६ ।।
जातप्रभृति यं देवं भक्त्या नित्यमथार्चयेत ।।
अन्तकाले तु संप्राप्ते सोऽपि त्राता भवेद् ध्रुवम् ।।७।।
किं वा पापविहीनस्य क्षिप्रं तुष्यन्ति देवताः ।।
तस्मात्पापं न कर्त्तव्यं नरेण त्रिदशाश्रयात् ।। ८ ।।
देवाश्रितानां पापानां क्षिप्रं पापं विनश्यति ।।
नत्वेव पातकं कर्म वृथा तेषां प्रजायते ।। ९ ।।
तथा बहु फलं लोके कथितं त्रिदशाश्रयम् ।।
सर्वान्समर्चयेद्देवानेकं वा देवमाश्रयेत् ।। 3.288.१० ।।
देवार्चां श्रद्धया कृत्वा ध्रुवं तल्लोकमाप्नुयात् ।।
कृत्वा देवगृहं विप्रा नरस्तल्लोकमाप्नुयात् ।। ११ ।।
परमाणूनि यावन्ति भवन्ति सुरवेश्मनः ।।
तावतोऽब्दानवाप्नोति तल्लोकान्नात्र संशयः ।। १२ ।।
यावद्वारं करोतीह देववेश्म सुधासितम् ।।
जन्मान्तराणि तावन्ति यशसा स विराजते ।। १३ ।।
प्रतिपाद्य तथा भक्त्या ध्वजं त्रिदशवेश्मनि ।।
निर्णुदत्याशु पापानि महापातकजान्यपि ।। १४ ।।
चित्रकर्म तथा कृत्वा गन्धर्वै सह मोदते ।।
देवमाल्यापनयनाद्गोदानफलमाप्नुयात्। ।। १५ ।।
पापैर्विमुच्यते सर्वैः प्रोक्षणाद्देववेश्मनः ।।
सम्मार्जनात्तथा पापं व्यपोहति न संशयः ।। १६ ।।
कामानभीष्टानाप्नोति देववेश्मोपलेपनात् ।।
सुधारेखान्वितं कृत्वा मर्यादां नातिवर्तते ।। १७ ।।
वर्णकैश्चित्रितं कृत्वा सौभाग्यं महदाप्नुयात् ।।
गन्धर्वत्वमवाप्नोति गन्धैरभ्युक्ष्य मानवाः ।। १८ ।।
पुष्पैर्विकिरणं कृत्वा रूपवानभिजायते ।।
अभ्यज्य देवप्रतिमां सर्वदुःखैर्विमुच्यते ।। १९ ।।
विरूक्षयित्वा तामेव पापेभ्यो विप्रमुच्यते ।।
ओषधीभिस्तथा स्नाप्य नासत्यैः सह मोदते ।। 3.288.२० ।।
लोके प्रजापतेर्याति वेदैः संस्नाप्य देवताम् ।।।
पुष्पोदकेन स्नपनात्सौभाग्यं महदश्नुते ।। २१ ।।
फलोदकेन संस्नाप्य सफलां विन्दते क्रियाम् ।।
नागवल्लीजलैः स्नाप्य नागलोकं स गच्छति ।। २२ ।।
रत्नोदकेन स्नपनाद्धानदं लोकमाप्नुयात् ।।
गन्धोदकेन मुख्येन गन्धर्वैः सह मोदते ।। २३ ।।
तीर्थोदकेन पुण्येन स्वर्गलोकमवाप्नुयात् ।।
तथानुलिप्य गन्धैश्च शक्रलोके महीयते ।। २४ ।।
विभूषणप्रदानेन राजा भवति भूतले ।।
राजलिङ्गप्रदानेन राजा भवति हि क्षितौ ।। २५ ।।
वस्त्रदानेन लोकेऽस्मिन्सुवेशस्त्वभिजायते ।।
देवे माल्यप्रदानेन परा लक्ष्मीं समश्नुते ।। २६ ।।
धूपप्रदानेन तथा गतिमग्र्यामवाप्नुयात् ।।
दीपदानेन चक्षुष्मान्प्रकाशश्चैव जायते ।। २७ ।।
ऊर्ध्वां गतिमवाप्नोति सर्वत्र च तथाग्र्यताम् ।।
देवताभ्यस्तथा विप्रा निवेद्यान्नमतन्द्रितः ।। २८ ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।।
परितोषमथायाति देवता बलिकर्मणा ।। २९ ।।
तास्तुष्टास्तर्पयन्येनं सर्वकामसमृद्धिभिः ।।
हृद्यपानप्रदानेन तृप्तिमाप्नोति शाश्वतीम् ।। 3.288.३० ।।
देवतानां नमस्कारात्किञ्चित्पापं प्रणश्यति ।।
तथैवाभ्यधिकं पापं प्रणिपातेन नश्यति ।। ३१ ।।
ततोऽप्यभ्यधिकं किञ्चित्कृत्वा देवे प्रदक्षिणाम् ।।
स्तुतिक्रिया देवतानां सर्वकामफलप्रदा ।। ३२ ।।।
गीतेन देवतास्तोषमुपयान्ति द्विजोत्तमाः ।।
तथा वाद्येन नृत्येन पुरुषस्य विशेषतः ।।३३ ।।
नृत्तं गीतं तथा वाद्यं स्वयमाचरते द्विजा ।।
देवसालोक्यमाप्नोति पुरुषस्य विपश्चितः ।। ३४ ।।
वाचनादितिहासानां पापमोक्षमवाप्नुयात् ।।
मूल्येन कारयेद्गीतं गन्धर्वत्वमथाप्नुयात् ।। ३५ ।।
वाद्यं दत्त्वाथ धर्मज्ञं वसूनां लोकमश्नुते ।।
नृत्तेन लोकमाप्नोति शङ्करस्य महात्मनः ।। ३६ ।।
इतिहासप्रदानेन बुद्धिमाञ्जायते नरः ।।
आहुतिं देवमुद्दिश्य यो ददाति हुताशने ।। ३७ ।।
स देवस्तर्पयत्येनं कामैर्वा तेन तर्पितः ।।
देवमुद्दिश्य विप्राणां यो ददातीह भोजनम् ।। ३८ ।।
स देवः प्रीतिमानस्य कामानिष्टान्प्रयच्छति ।।
देवमुद्दिश्य यत्किञ्चिद्ब्राह्मणेभ्यः प्रदीयते ।।३९।।
तदेव प्राप्यते लोके प्रसन्ने त्रिदशे बहु ।।
यानं शय्यासनं छत्रं पादुके चाप्युपानहौ ।। 3.288.४० ।।
वाहनं गां च धर्मज्ञास्त्रिदशभ्यो ददाति यः ।।
एकैकस्मादवाप्नोति वह्निष्टोमफलं नरः ।। ४१ ।।
दत्त्वा फलानि देवेभ्यः सफलां विन्दते क्रियाम् ।।
निवेद्य सस्यानि तथा गतिमाप्नोत्यनुत्तमाम् ।। ४२ ।।
नैति देवस्तथा प्रीतिं दानैर्नृत्यैस्तथा फलैः ।।
प्रीतिमेति यथा विप्राः स्वाश्रितानान्तु पूजनैः ।। ४३ ।।
देवता नैव तुष्यन्ति दानेन बहुधा द्विजाः ।।
यथा भक्त्या तु तुष्यन्ति तस्माद्भक्तिं समाश्रयेत् ।। ४४ ।।
घृतपूर्णानि पात्राणि दत्त्वा श्राद्धे तथा नरः ।।
दीर्घं जीवितमाप्नोति न रोगैश्चाभिभूयते ।। ४५ ।।
मधुपूर्णानि पात्राणि दत्त्वा सौभाग्यमाप्नुयात् ।।
यथाकथञ्चित्पात्राणां दानाद्भवति सत्तमाः ।।४६।।
पात्रं नु सर्वकामानां नात्र कार्या विचारणा ।।
पुष्पवृक्षप्रदानेन गृहमाप्नोति मानवः ।। ४७ ।।
फलवृक्षप्रदानेन ग्रामस्याधिपतिर्भवेत् ।।
गृहप्रदानाद्धवति खेटकाधिपतिस्तथा ।। ४८ ।।
गृहं शय्यासनोपेतं यानवाहनसंयुतम् ।।
धनधान्ययुतं स्फीतं दासीदाससमाकुलम् ।। ४९ ।।
सर्वकामयुतं रम्यं प्रदाय श्राद्धकर्मणि ।।
स्वर्गलोकात्परिभ्रष्टो राजा भवति पार्थिवः ।। 3.288.५० ।।
पितॄनुद्दिश्य यद्दानं किञ्चिदेव प्रयच्छति।।
तस्याभ्यधिकमाप्नोति पुण्यं तेषां प्रसादतः ।। ५१ ।।
तस्माच्छ्राद्धानि कार्याणि तीर्थेष्वायतनेषु च ।।
दानानि चैव देयानि पितॄनुद्दिश्य शक्तितः।।५२।।
श्राद्धेषु पुष्टिं मनुजा लभन्ते श्राद्धेन विप्रास्त्रिदिवे च वासः।।
श्राद्धं प्रयत्नेन ततश्च कुर्यात्स्वकल्पसूत्राभिहितं यथावत् ।।५३।।
इति श्रीविष्णुधर्मोत्तरे तृ० खं० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु पितृपूजाविधानं नामाष्टाशीत्युत्तरद्विशततमोऽध्यायः ।। २८८ ।।
3.289
हंस उवाच ।।
शूद्राणां दैवतं वैश्या वैश्यानां क्षत्रियास्तथा ।।
ब्राह्मणाः क्षत्रियाणां च तेषामपि हुताशनः ।। १ ।।
गुरुदेवो ब्रह्मचारी नार्यश्च पतिदेवताः ।।
गृहस्थोऽतिथिदैवत्यस्तस्मात्तं पूजयेत्सदा ।। २ ।।
वैश्वदेवं गृहे कृत्वा सायं प्रातः समाहितः ।।
पिण्डनिर्वपणं कृत्वा भिक्षां दत्त्वा तु भिक्षवे।। ।।
सत्कृत्य भिक्षादानेन गोदानफलमाप्नुयात् ।।
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ।। ४ ।।
गृहस्थमुपजीवन्ति प्रजाः स्थावरजङ्गमाः ।।
गृहस्थः पोषणं कुर्यान्मृतानां जीवतामपि ।। ५ ।।
पोषणान्नित्यमेवेह तेन स्वर्गे महीयते ।।
कीटः पतङ्गः पतितः शत्रवो द्विजपुङ्गवाः।।६।।
गृहिणा नावमन्तव्या वैश्वदेवे ह्युपस्थिते ।।
अतिथिं पूजयेद्यत्नागृहस्थो गृहमागतम् ।। ७ ।।
उत्थायास्य व्रजन्पूर्वे गोदानफलमाप्नुयात् ।।
आसनं च तथा दत्त्वा स्थानलाभं नरोत्तमः ।। ८ ।।
कृत्वा च कुशल प्रश्नं बुद्धिमाञ्जायते नरः ।।
पादशौचेन तस्याथ श्रान्तसंवाहनेन च ।। ९ ।।
वीजनाच्चामरेणापि तालवृन्तेन वीजनात् ।।
पादाभ्यङ्गप्रदानेन दीपदानेन वाप्यथ ।। 3.289.१० ।।
रात्रौ शयनदानेन तथा संवाहनेन च ।।
एकैकस्मादवाप्नोति गोदानफलमुत्तमम् ।। ११ ।।
उपास्यैनं कथाभिश्च यशसा योगमाप्नुयात् ।।
संश्राव्य चेतिहासानि तथैनं च तदिच्छया ।। १२ ।।
नाकलोकमवाप्नोति गीतनृत्योत्सवादिभिः ।।
पूजयित्वा तथाप्नोति गन्धर्वत्वमसंशयम् ।। १३ ।।
प्रतिश्रयप्रदानेन सर्वान्कामान्समश्नुते ।।
मृदं च दन्तकाष्ठं च दत्त्वा शौचोदकं तथा ।। १४ ।।
काले यथासुखं दत्त्वा सौभाग्यं महदाप्नुयात् ।।
प्रताप्य चैनं शीतार्तं सर्वत्र सुखमश्नुते ।। १५ ।।
अभ्यङ्गपूर्वकं दत्त्वा तस्य स्नानमतन्द्रितः ।।
आरोग्यरूपलावण्यधनधान्यमुपाश्नुते ।। १६ ।।
दत्त्वा सकलमुख्यानि स्नानानि द्विजसत्तमाः ।।
नासत्यलोकमाप्नोति नात्र कार्या विचारणा ।।१७ ।।
सुगन्धीनि तथा दत्त्वा गन्धर्वैः सह मोदते ।।
कंकणस्य प्रदानेन सौभाग्यं महदश्नुते ।। १८ ।।
अतिथिस्नापनात्पुण्यं दशगोदानजं भवेत् ।।
किमिच्छुकेन संयोज्य वाजपेयफलं लभेत् ।। १९ ।।
स्वेच्छितं च प्रदायास्य तदेवाक्षयमश्नुते ।।
सर्वशक्त्या नरस्तस्मादतिथिं पूजयेत्सदा ।। 3.289.२० ।।
तृप्तोऽतिथिर्यत्पुरुषस्य किञ्चिद्विचिन्तयत्येव महानुभावः ।।
तत्सर्वमाप्नोत्यचिरेण तस्मात्पूज्योऽतिथिर्धर्मपरेण नित्यम् ।। २१ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वतिथिपूजा नामैकोननवत्यधिकद्विशततमोऽध्यायः ।। २८९ ।।
3.290
।। हंस उवाच ।। ।।
ब्राह्मणा दैवतं भूमौ ब्राह्मणा दिवि दैवतम् ।।
ब्राह्मणेभ्यः परं नास्ति भूतं किंञ्चिज्जगत्त्रये ।। १ ।।
अदैवं दैवतं कुर्युः कुर्युर्दैवमदैवतम् ।।
ब्राह्मणा हि महाभागाः पूज्यन्ते सततं द्विजाः ।। २ ।।
ब्राह्मणेभ्यः समुत्पन्ना देवाः पूर्वमिति श्रुतिः ।।
ब्राह्मणेभ्यो जगत्सर्वं तस्मात्पूज्यतमाः सदा ।। ३ ।।
एषामश्नन्ति वक्त्रेण देवताः पितरस्तथा ।।
ऋषयश्च महाभागाः किम्भूतमधिकं ततः ।। ४ ।।
यदेव मनुजो भक्त्या ब्राह्मणेभ्यः प्रयच्छति ।।
तदेवाप्नोति धर्मज्ञा बहु जन्मनिजन्मनि ।। ५ ।।
तालवृन्तानिलेनैवं श्रान्तसंवाहनेन च ।।
उन्मार्जनेन गात्राणां तथाप्यञ्जनकर्मणा ।। ६ ।।
पादशौचप्रदानेन पादयोः शौचनेन च ।।
परिचर्यया यथाकाममेकेनैव द्विजोत्तमाः ।। ७ ।।
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ।।
ब्राह्मणाज्ञां शुभां कृत्वा नाकलोके महीयते ।।८।।
यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति ।।
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः।।९।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ब्राह्मणशुश्रूषा नाम नवत्यधिकद्विशततमोऽध्यायः ।। २९० ।।