र्शानन्तरं करादिवृत्तिसंस्थानविशेषोपलम्भादपि शङ्कानिवृत्तेिर्न- स्यात् इति वाच्यम् । तृतीयक्षणे स्वत एव निवृत्तिसम्भवात् । नच तत्र विशेषदर्शनात् ‘पुरुषोऽयम्’ इतिनिश्चयोत्तरमपि पुनः संशया पत्तिरिति वाच्यम् । निश्चयोत्तरं करादिसंस्थाने सत्यपि यदि न पुरुषस्वं तदाऽपि नानिष्टं शिल्पिनैपुण्यविशेषादपि त- दुपपत्तिरिति प्रतिसन्धाने सति इष्टापत्तः । यदपि व्यापया- रोपाद् व्यापकारोपस्तर्क इति । तदपि न । आरोपितव्याप्यहेतु- कासदर्थकानुमितावतिव्याप्तेः। नापि व्याप्यारोपाद्व्यापकप्रसञ्जनम् । प्रसञ्जनं हि तर्को वा आरोपमात्रं वा ? नाद्यः । तस्यैव नि- रूप्यत्वात् । विशेषणवैयर्थ्याञ्च च । न द्वितीयः । दूषितत्वात् । नापि व्यापकाभाववत्तया ज्ञाते व्याख्यारोपाद्व्यापंकारोपः । श- ङ्खत्वेन द्रव्यमवगम्य ‘पीतोऽयं शङ्खो न तु शुक्लः' इति प्र्- यक्षतोऽवगच्छतः शङ्खत्वाच्छुक्ल इत्यनुमितावतिव्याप्तेः । व्या- पकाभावावधारणे व्यापकारोपसम्भवाच । नचाहार्य्योऽयमबाधिते न सम्भवतीति वाच्यम् । आहार्यान्तरेऽनुमित्याद्यमकेऽतिव्याप्तेः । प्रयोक्तुर्व्यपकारोपस्य परं प्रत्यनुपयुक्ततया प्रसङ्गानात्मकत्वापत्तेश्च । एतेन तर्क्कयामि’ इति प्रतीतिसाक्षिको बहिरिन्द्रियादिनिरपेक्षमनो जन्यज्ञानावृत्तिमानसत्वव्याप्यो जातिविशेषस्तल्लक्षणमिति परास्तम् । तर्कस्यानिष्टानुपनायकत्वनिरासाय विषयवंलक्षण्यमवश्यं वाच्यम् । तत एव व्यवहारोपपत्तौ जातिभेदे प्रमणाभावाञ्च । अन्यथा घटज्ञान- त्वदिकमपि जातिः स्यात् । ‘यदि पर्वतो निर्वह्निः स्यात्तदा निधूमः स्यद्भूतलं घटवद्’ इति ज्ञाने भूतलाद्यंशे शे तर्क्कत्वस्वीकारे तदनुव्यवसायापत्तिः । तदनङ्गीकारें अशेकत्वपया तर्क्कत्वं न जातिरित्यपि केचित ।
यतु-निबन्धोपायकृद्वर्द्धमानोपाध्यायाः अध्यवस्थिता-