पि कदाचित्प्रवृत्तिः स्यादिति तु न शङ्कनीयम् । तदज्ञानात् । त्वदीयव्रतप्रवृत्तयो व्याहन्येरन्निति वदन्नाचार्य्यः प्रष्टव्यः कुत इति, यदि व्रते परस्परविरोधादिति तर्हि नूनं तयोर्विरोधोऽवधृतोऽस्ति स एव नियमघटितः, स कथमवधार्य्य इति त्वयैव दत्तोत्तरत्वात्, इति श्रुत्वाऽऽचार्यः सन्दिहानो बभूव इति ।
एतेनात एव
व्याघातो यदि शङ्काऽस्ति नचेच्छङ्का ततस्तराम् ।
व्याघातावधिराशङ्का तर्कः शङ्कावधिः कुतः ॥
इति खण्डनं निरस्तम् । नहि व्याघातः शङ्काश्रितः, किन्तु स्व-
क्रियैव शङ्का प्रतिबन्धिकेति मणिकृद्गङ्गेश्वराचार्योक्तं परास्तम् ।
क्रियाकारणीभूतनिश्चयव्याघातेत्यस्य परत्वेऽपि चरमदोषानुद्धरात्।
खण्डनख्याख्यायां दीधितिकृतस्तु-यच्च मणिकृता नहि व्या- घातः शङ्गाश्रितः किन्तु स्वक्रियैव शङ्काप्रतिबन्धिका'इति खण्डनमु- धृतम् , तदसत् । प्रवृत्तेः शङ्प्रतिबन्धकत्वस्य व्याप्यत्वकल्पनात् । क्रियाकारणीभूतनिश्चयस्य प्रमात्मकस्य क्वाप्यसिद्धेः । प्रमामा- त्रस्य खण्डितवान् । । भ्रमात्तु न वस्तुसिद्धिः । किञ्च क्रिया- ऽपि सम्भावनाऽत एवोपपन्न न निश्चयमपेक्षत इति किञ्चि- देतदित्याहुः ।
खण्डनं तु व्याघातो विरोधस्य यदि तदा तदाश्रय- भूत शङ्काऽस्त्येव शङ्कामन्तरेण तदाश्रयीभूतस्य व्याघतस्यै- वासम्भवात् । नहि धर्मिणमन्तरेण धम्मस्संभवति । नचेद्व्याघा- तस्तदा ततः पतंबन्धाभवत् तरां सुतरां शङ्का । ततस्तरा- मिदं समस्तं बोध्यम् । व्याघावाधिः व्याघाताश्रयो यतः शङ्का, अतः शङ्काया अवधः पर्यवसानं स्वपूर्वशङ्कानिवर्तकः स्वोत्त रशङ्कानुत्पत्तिप्रयोजकस्तर्कः कुतस्तर्कमूलव्याप्तावपि शङ्काताद- वस्थ्यादिस्येवं व्याख्येयम् । नचैवं ‘स्थाणुर्वा पुरुषो वा'इति विम-