सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
 



नेिर्वाहात्तर्कस्याकिञ्चित्करतेति वाच्यम् । कुतश्चित्प्रतिबन्धकज्ञानानु- त्पादेऽपि तर्केण शङ्काप्रतिबन्धात् ।

 केचित्तु-अयोग्योपाधिशङ्कया कापि व्याप्त्यनिश्चयकथ- मनुमानेनेश्वरसिद्धिरित्युक्तवन्तञ्चार्वाकं प्रत्याहृदयनाचार्य्यः-


 शङ्का चेदनुमाऽस्त्येव नचेच्छङ्का ततस्तराम् ।
 व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ।।

इति ।

 अस्यायमाशयः-कि व्यभिचारशङ्का दृश्यमाने धूमे, का- लान्तरीये, देशान्तरीये वा !। नाद्यः । सहैवोपलब्धेः । न द्वि- तीयः । अनुमानं विनोभयभानासम्भवेन शङ्काSनुपपत्त्याऽनुमा- नस्वीकारावश्यकत्वात् । नचेच्छङ्का तर्हि तरां सुतरां व्याप्ति- ग्रहादनुमानसिद्धेः । एवं निरस्तश्चार्वाकः शिष्यतां प्राप्तः पृच्छ- ति-‘भगवन् धूमे वह्निसामानाधिकरण्यात्मकधर्मस्य वाह्निव्यभिचार्य्य- व्यभिचारिसाधारणस्य दर्शनाच्छङ्का जायत एव, सा कुतो न स्यात् । यदि च 'वह्निमवृत्तिः कथं वन्ह्याभावत्रद्वृत्तिर्भवेद्’ इत्यु- तरं ददासि, तदा नूनं तयोर्विरोधो ऽवधृतोऽस्ति स एव नि- यमघटितः, कथमवाधार्य्यः इत्युक्तवन्तं प्रत्याह-तर्कः शङ्कावधिर्म- तम । शङ्कानिवर्त्त्क इत्यर्थः । तथा च 'धूम यदि वह्निव्य- भिचारी स्यात्, वह्निजन्यो न स्याद् ’ इति । तर्केण व्यभिचारशङ्का वारणीया । अथ कदाचिद् वह्निरेव भविष्यतीत्यादिशङ्का तर्कवि- रोधिनी स्यात्तकन्तरात्तन्निवृत्तौ चानत्रस्थेत्युक्तवन्तं प्रत्याह-व्या- घातेयादि । व्याघातो धूमाद्यर्थं वह्न्यादौ नियतप्रवृत्यादिः, सो- Sवधिः पर्यवसानं निवर्त्त्को यस्याः सा । तथा। च नानवस्थेत्यर्थ इति श्रुत्वाऽऽचार्यं शिरसा श्लाघयन्नपि मनःप्रत्ययमलभमानः स्वसहचारिणोऽन्यानवलोकयान्छिरो धुन्वानस्तूष्णीमभवत्, ततो ऽपर आह-'तन चारु, कुतः क्रुध्यदेप्रवृत्तिवत्सम्भावनयैवोक्तप्रवृ त्युषपत्त्या तस्याः क्वापि शङ्काप्रतिबन्धकत्वाकल्पनात् । अन्यत्रा-