पृष्ठम्:न्यायमकरन्दः.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ न्ययमकरन्थे मू०द्विच्छेदव्यवस्था, योग्यता च कार्यप्रतियोगिनी, नच बुद्धिः पुरुषे स्वभावनिर्मलत्वेनानायातिशये किं चिद् पूर्वदर्शनमुपजनयतीति कथं तद्योग्यतया दृश्या, । नर्तकी तु पार्षदानां स्वगोचरसाक्षात्कारं जनयन्ती भ वति दृश्योपकारिका चेत्युक्तम्, । तदेवं प्रकृतिजनितोपकारानिरूपणान्न तयाः पु रुषस्य च स्वस्वामिभावोपपत्तिः । भिन्नाभिन्नानुपपत्तेश्च, न तावत् स्वस्वामिभावः प्र कृतिपुरुषाभ्यां भिन्नःस्वयमनभ्युपगमाद्, नहि गुण पुरुषातिरिक्तं किञ्चित्वयाभ्युपगतम् , अथाभिन्नतथापि प्रकृतिपुरुषयोरनुच्छेदादनुच्छेद्यः स्वस्वाभिभवः, ततो मोक्षानुपपत्तिः, । टी०-योग्यतायाः कार्यसमधिगम्यस्थात्पुरुषे च दर्शनलक्षणकार्य स्याभावादपि न योग्यतासम्बाध इस्याह–“ योग्यत च ” इति । तद्योग्यता=दर्शनयोग्यतेति यावत। इटान्तेपि समानमेतदित्यत आह- नर्तकी तु 'इति, उपचारनिमित्तभावमुक्तमुपसंहरति -“ तदेवम् ” इति, । प्रकृतिपुरुषाऽयामन्यस्वेनानन्यस्वेनच सम्बन्धो दुर्मिकप इत्याह ‘‘भिन्नभिन्न ”” इति,। भिन्नस्य चाभिशस्य चानुपपतेरिति यावत्। संप्रहवाक्यं विभजते-‘‘ नतावदू ” इति, । अनभ्युपगम मेव दर्शयति-‘‘ नहि ” इति, । द्वितीयमनूद्य दूषयति

  • अथ ’ इति, । ततः किमित्यत आह- तत » इति, ।