पृष्ठम्:न्यायमकरन्दः.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवर्तकत्वावधारणम् । २५५ मू•-न्व्याचष्टां किमर्थतः कालविवेकः, किं वा शब्दत इति, यद्याघः कल्पः, खरविषाणसाम्यापातः । कालतिरेकिणो हि सत्ता कालसम्बन्धव्याप्त, स चाकालात्मनो नियोगाद्यापको व्यावर्तमानः स्वव्या प्यामपि सतां व्यावर्तयेद् दहन इव धूमम्, उत्तरस्मिस्तु न घटादिभ्यो विशेषः कश्चित्, । अयमत्रार्थसंग्रहः--प्रमाणान्तरप्रसिद्धयोरलौकिक नियोगार्थताऽयोगालिङ्डादीनां लोकावसितामेव समी टी०-अमवापातमेवानुमानेन दर्शयति-‘‘कालातिरेकिणोपि” इति । काले व्यभिचारवारणार्थं कालातिरेकिण इति विशेषणम,अत्र जडस्येति विशेषणमनुसन्धेयम, अन्यथा ब्रह्मण्यनैकान्तिकत्वादू, । 6« न घटादिभ्ये विशेष " इति, । घटशब्देन यद घटः प्रती यते तदा कालत्रयसबन्धित्वमेव प्रतीयतेऽन्यथाघटोभूदस्ति भवे ष्यतीति प्रयोगपौनरुक्त्यपातादूघटशब्देनैव कालश्रयसत्वप्रतीते नियमेन चान्यतरकालसंबन्धत्वे तदितरकाळसंबन्धप्रतिपादक भूदस्तील्यदिशब्दानां विरोधाचेत्यर्थः । अथ व घटादयेपि यदा घटादिशब्दैः कृतिसाध्यतयाधिग म्यन्ते तदा कालत्रयासंस्पृष्टतयैव गम्यन्तेऽनद्यतनवर्त्तमानादिव्य तिरिक्तार्थे लिङादिविधानात, ततोनियोगस्य घटादविशेष इत्यर्थ । सुखावबोधाय नियोगदूषण संक्षिप्य लिङदीनां समीहित साधनताप्रतिपादकत्वमुक्तमनुस्मारयति “ अयमत्र इति। , १