कुमुदादीन् गणेशाश्च चक्रादीन्यायुधान्यपि ।
गरुडं च विशेषेण शेष शेषाशनं तथा ।
प्रणम्य स्मारयेद्देव सस्नेहादरसाध्वसम् [१]।
निक्षिपन् जीवितमिव न्यस्यन्निव महानिधिम् ।।
निधित्सन्निव चक्षु स्वमर्पयन्निव कल्पकम् ।
सर्वे भवन्त सगणा सन्नद्धा सर्वदिक्ष्वपि ।।
सावधानाश्च तिष्ठन्तु निक्षिपामि भवत्स्वहम् ।
मम नाथ मम गुरुं पितर मातरं च मे ।
हरि श्रिय भुव चापि तान् पालयत सर्वत ।
यथानिक्षिप्तरुप मे सन्दर्शयत सर्वदा ।। भवत शरण गत्वा व्रजामि गतसाध्वस |
इति विज्ञाप्य तान् पश्चात् प्रार्थयेत हरि गिरा ||
ननु देव त्वमेवैक सस्थावरचरं जगत् ।
ब्रह्मादिस्थावरान्तं च परिपासि बिभर्षि च ।।
सहरिष्यसि चाप्यन्ते रूपै स्वै स्वैर्यथेप्सितै ।
केन त्व पाल्यसे देव केन वा त्वं विहिस्यसे[२]॥
अतस्त्वमेव त्वा देव्यौ चण्डादीन् पालकानपि ।
मा च मामकमप्येतत्सर्वं गृहमशेषत ।।
पालयित्वा स्वसङ्कल्पमात्रेण मधुसूदन ।
त्वा मया त्वयि निक्षिप्त विश्वस्तेनार्थिकल्पक ॥
आगताय यथाकाल सर्व मे दातुमर्हसि ।