व्याख्याद्वयोपेता १।१।१९
[प्रकाशिका ] संदेहाभावेन " संदिग्धेषु वाक्यशेषात् " जै. १।४।१९।२९ इति न्यायस्यानवतारादिति परिचोद्य यद्यपि लोक एव स्वर्गशब्दस्य निर्णीतार्थता तथाऽपि लोकावगतसातिशयसुखवाचकत्वे तत्साधनत्वं ज्योतिष्टोमादीनां स्यात् । तथा चाल्पधननरायाससाध्ये लौकिके तदुपायान्तरे संभवति न बहुधननराणां सुसाध्ये बह्वन्तराये ज्योतिष्टोमादौ प्रेक्षावान्प्रवर्तत इति प्रवर्तकत्वं ज्योतिष्टोमादिविधेर्न स्यात् । अतो वाक्यशेषावगते निरतिशयप्रीतिविशेषे स्वर्गशब्दस्य शक्तौ निश्चितायां वाक्यशेषाभावस्थलेऽपि यववराहादिष्विव स एवार्थः । लौकिके सातिशयप्रीतिभरिते गुणयोगादेव वृत्तेरुपपत्तेर्न शक्त्यन्तरकल्पना । न च प्रीतिमात्रवचनस्यैव स्वर्गशब्दस्य वेदे निरतिशयप्रीतिवाचित्वमस्त्विति वाच्यम् । निरतिशयत्वांशस्यान्यतोऽनवगतत्त्वेन तत्रापि शक्त्यवश्यंभावेन स्वर्गशब्दस्य लोकवेदयोरनेकार्थता स्यात् । यदा तु वैदिकप्रयोगावगतनिरतिशयप्रीतिवाचिता तदा सातिशये लौकिके प्रीतित्वसामान्ययोगाद्गौणी वृत्तिरिति मीमांसकैर्निरतिशयसुखवाचित्वस्यैव समर्थिततया मोक्षस्य स्वर्गशब्दवाच्यत्वे विवादायोगात् । पार्थशब्दस्यार्जुन इव तदितरपृथापुत्रेषु प्रचुरप्रयोगाभावेऽपि पार्थशब्दमुख्यार्थत्वानपायवत्स्वर्गशब्दस्य सूर्यध्रुवान्तरवर्तिलोकगतसुखविशेष इवान्यत्र प्रचुरप्रयोगाभावेऽपि वाच्यतानपायात् । बर्हिराज्यादिशब्दानामसंस्कृततृणघृतादिष्वार्यैरप्रयुज्यमानानामप्यस्त्येव तद्बाचित्वं केषांचिदप्रयोगमात्रस्य शक्त्यभावासाधकत्वात् । अतस्तृणत्वादिजातिवचना एवं बर्हिरादिशब्दा इति बर्हिराज्याधिकरणे स्थितत्वात् । तदुक्तं वार्तिके---
एकदेशेऽपि यो दृष्टः शब्दो जातिनिबन्धनः ।।
तदत्यागान्न तस्यास्ति निमित्तान्तरगामिता ॥ इति ।
ततश्च स्वर्गशब्दो मोक्षसाधारण एव । ननु बर्हिराज्यादिशब्देष्वसंस्कृत तृणघृतादावार्यप्रयोगाभावेऽप्यनार्यप्रयोगसत्त्वादसंस्कृतवाचतास्तु नाम । स्वर्गशब्दस्य सूर्यध्रुवान्तर्वर्तिलोकसुखविशेषातिरिक्तस्थले नियमेनाप्रयोगात्तद्वयावृत्यैव शक्तिरभ्युपगन्तव्या । अत एव प्रोद्गात्रधिकरण उद्गातृशब्दस्य ऋत्विग्विशेष इतरव्यावृत्तप्रयोगविशेषेण रूढत्वात्तस्य चोद्गातुरेकत्वेन ‘ प्रैतुहोतुश्चमसः प्रोद्गातॄणाम् ' इति बहुवचनार्थबहुत्वासंभवात्तदन्वयार्थे रूढिपूर्वकलक्षणया ' अवसुब्रह्मण्यनामकस्तोत्रसंबंधिनां त्रयाणां वा सुब्रह्मण्यानां चतुर्णी