पृष्ठम्:काठकोपनिषत्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।१९     काठकोपनिषत्         १६

[प्रकाशिका] वोद्गात्रादीनां छन्दोगानां ग्रहणमित्येतद्विरुध्येत । तथाऽहीनाधि करणे तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येत्यत्राहीनशब्दस्य " अहू: खः क्रतौ " का. वा. इति व्याकरणस्मृत्या खप्रत्ययान्ततयाऽहर्गणसामान्यवाचितया व्युत्पादितस्याप्यहीनशब्स्य नियमेन सत्रेऽप्रयोगादहर्गणविशेषरूढिमङ्गीकृत्य ज्योतिष्टोमस्याहर्गणविशेषत्वाभावादहीन इति योगस्य रूढिपराहतत्वेन योगेन ज्योतिष्टोमे वृत्त्यसंभवाज्ज्योतिष्टोमप्रकरणाधीताया अपि द्वादशाहीनस्येति द्वादशोपसत्ताया अहर्गणविशेषोत्कर्ष इत्युक्तम् । तथा " पाय्यसान्नाय्यनिकाय्यध्याय्या मानहविर्निवाससामिधेनीषु " पा. सू. ३॥१॥१२९ इति. व्याकरणस्मृत्या सामिधेनीमात्रवाचितया व्युत्पादि तस्यापि धाय्याशब्दस्य न सामिधेनीवचनत्वं नापि धीयमानत्वरूपयोगार्थवशेन वा धीयमानमात्रवचनत्वम् । स्तुतिशस्त्रार्थतया धीयमानासु ऋक्षु सामिधेनीमात्रे च धायाशब्दप्रयोगादपि तु " पृथुपाजवत्यौ धाय्ये भवतः " इत्यादिवैदिकप्रयोगविषयेषु पृथुपाजवत्यादिष्वेव धाय्याशब्दस्य शक्तिरिति " समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युः " जै. ५॥३॥३॥४ इति पाञ्चमिकाधिकरणे स्थितमेवमादिकं सर्वं विरुध्येत । स्वर्गशब्दे त्वदुक्तरीत्या प्रयोगाभावेऽपि शक्तिसंभव उद्गात्रादिशब्दानामृत्विग्विशेषादिषु रूढेरकल्पनीयत्वादिति चेत् । सत्यम् । यदि सर्वात्मना तदतिरिक्ते स्वर्गशब्दप्रयोगो न स्यात्तदा तद्वयावृत्ता रूढिरभ्युपगन्तव्या स्यात् । अस्ति हि तत्रापि प्रयोगः । " तस्य हिरण्मयः कोशः स्वर्गो लोको ज्योतिषावृत्तः, यो वैतां ब्रह्मणो वेद " " तेन धीरा अपि यन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्र्वं विमुक्ता " बृ० ४॥४॥८ “ अपहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति के० ३४ इति तैत्तिरीयकबृहदारण्यकतलवकारादिष्वध्यात्मशास्त्रेषु प्रयोगदर्शनात् पौराणिकपरिकल्पितस्वर्गशब्दरूढेः, सांख्यपरिकल्पिताव्यक्तशब्दरूढिवदनादरणयित्वात् , अस्मिन्नेव प्रकरणे " त्रिणाचिकेतस्रयमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम् । स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके " क० १॥१॥१८ इति मन्त्रे कर्मज्ञानसमुच्चयसाध्यवाचकतया श्रूयमाणस्य स्वर्गलोकशब्दस्य सूर्यध्रुवान्तर्वर्तिलोकव्यतिरिक्तवैराजपदवाचकतया परैरपि व्याख्यातत्वाच्च । ननु सूर्यलोकोर्ध्ववर्तिलोकत्वस्यैव प्रवृत्तिनिमित्ततया तस्य च वैराजपदेऽपि सत्त्वान्नामुख्यार्थत्वमिति चेत्तर्हि भगवल्लोकेऽप्यू-