सामग्री पर जाएँ

पृष्ठम्:काठकोपनिषत्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।१९     काठकोपनिषत्     १४

[ प्रकाशिका] मु० ३।२।६ इति श्रुत्युक्तरीत्यामृतत्वप्राप्तेः संभवेन " स्वर्गलोका अमृतत्वं भजन्ते " क. १।१।१३ इत्यस्योपपत्तेश्चापेक्षितामृतत्वपरतया लोकवेदनिरूढौपसंहारिकामृतशब्दानुसारेण प्रक्रमस्थानन्यथासिद्धविशेष्यवाचिस्वर्गशब्दस्यान्यथानयनासंभवात् । न हि देवदत्तोऽभिरूप इत्युक्तेऽभिरूपपदस्वारस्यानुसारेण देवदत्तपदस्यात्यन्ताभिरूपयज्ञदत्तपरत्वमाश्रीयते । न द्वितीयः । त्रिणाचिकेतस्त्रिभिरिति मन्त्रस्य स्वर्गसाधनस्यैवाग्नेस्त्रिरम्यासेन जन्ममृत्युतरणहेतुभूतब्रह्मविद्याहेतुत्वमस्तीत्येतदर्थकतया स्वर्गशब्दस्य मुख्यार्थपरत्वाबाधकत्वात् । अत एव तत्तुल्यार्थस्य " करोति तद्येन पुनर्न जायते " इत्यस्यापि न स्वर्गशब्दमुख्यार्थबाधकत्वं नापि क्षयिष्णोः स्वर्गस्य फलान्तरविमुखनचिकेतःप्रार्थ्यमानत्वानुपपत्तिरिति तृतीयः पक्षः । स्वर्गसाधनाग्निप्रश्नं प्रति ब्रुवता हितैषिणा मृत्युनाऽपृष्टेपि मोक्षस्वरूपे " अनन्तलोकाप्तिमथो प्रतिष्ठां त्रिणाचिकेतस्त्रिभिरेत्य संधिं त्रिकर्मकृत्तरति जन्ममृत्यू क. १।१।१७ इत्यादिनोपक्षिप्त उत्पन्ना मुमुक्षा " अन्यं वरं नचिकेतो वृणीष्व " इति प्रतिषेधेन दृढीकृता । तस्यां च दशायां क्रियमाणक्षयिष्णुफलनिन्दा प्राचीनस्वर्गप्रार्थनायाः कथं बाधिका स्यात् । किंच ' श्वोभावा मर्त्यस्य " क० १।१।२६ इत्यादौ मर्त्यभोगनिन्दाया एव दर्शनेन स्वर्गनिन्दाया अदर्शनात्स्वर्गशब्दस्य मोक्षपरत्वे तस्य ज्ञानैकसाध्यतया तत्प्रयोजनकत्वस्याग्नावभावापक्रमोपसंहारमध्याभ्यस्तस्वर्गशब्दपीडाप्रसङ्गाच्च । सन्तु वा प्रतिवचने बाधकान्यथाप्युपक्रमाधिकरणन्यायेन प्रथमस्य प्रश्नवाक्यस्थस्वर्गशब्दस्यैव प्रबलत्वात् । न वा ' भूयसां स्यात्सधर्मत्वम् ' जै. १२।२।७।२२ इति न्यायाद्भूयोनुग्रहार्थेऽल्पस्योपक्रमस्य बाध्यत्वमस्त्विति वाच्यम् । " मुख्यं वा " जै. १२।२।८।२३ इति सूत्र औपसंहारिकबह्नपेक्षयाऽपि मुख्यस्यैव प्राबल्योक्तेः । तस्मात्स्वर्गशब्द्स्य् मुख्यार्थपरित्यागे न किंचित्कारणमिति । अत्रोच्यते--स्वर्गशब्दस्य मुख्ययैव वृत्त्या मोक्षवाचित्वं स्वर्गकामाधिकरणे नागृहीतविशेषणन्यायेन स्वर्गशब्दस्य प्रीतिवचनत्वमेव न प्रीतिविशिष्टद्रव्यवाचितेत्युक्तम् । ननु स्वर्गशब्दस्य नागृहीतविशेषणन्यायेन प्रीतिवचनत्वे सिद्धेऽपि देहान्तरदेशान्तरभोग्यप्रीतिवाचिता न सिध्येत् । न च यस्मिन्नोष्णमित्यादिवाक्यशेषाद्विध्युद्देशस्थस्वर्गशब्दस्य प्रीतिविशेषवाचितानिश्चय इति वाच्यम् । प्रीतिमात्रवाचित्वेन निर्णीतशक्तिकतया