१।१।७ काठकोपनिषत् ६
तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७ ॥
आशाप्रतीक्षे संगतं सूनृतां चेष्टापूर्ते पुत्रपशूंश्च सर्वान् ।
एतद्वृङक्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥८॥
[ शांकरभाष्यम् ] स एवमुक्तः पितात्मनः सत्यतायै प्रेषयामास । स च यमभवनं गत्वा तिस्रो रात्रीरुवास यमे प्रोषिते । प्रोष्यागतं यमममात्या भार्या वा ऊचुर्बोधयन्तो वैश्वानरोऽग्निरेव साक्षात्प्रविशत्यतिथिः सन्ब्राह्मणो गृहान्दहन्निव तस्य दाहं शमयन्त इवाग्नेरेतां पाद्यासनादिदानलक्षणां शान्ति कुर्वन्ति सन्तोऽतिथेर्यतोऽतो हराहर हे वैवस्वतोदकं नचिकेतसे पाद्यार्थम् । यतश्चाकरणे प्रत्यवायः श्रूयते ॥ ७ ॥
आशाप्रतीक्षे अनिर्ज्ञातप्राप्येष्टार्थप्रार्थनाशा, निर्ज्ञातप्राप्यार्थप्रतीक्षणं
प्रतीक्षा ते अशाप्रतीक्षे । संगतं तत्संयोगजं फलं सूनृतां च सूनृता हि
प्रिया वाक्तन्निमित्तं च । इष्टापूर्ते इष्टं यागजं पूर्तमारामादिक्रियाजं फलम् ।
पुत्रपशूंश्च पुत्रांश्च पशूंश्च सर्वानेतत्सर्वं यथोक्तं वृङ्क आवर्जयति विनाशयतीत्येतत् ।
पुरुषस्याल्पमेधसोऽल्पप्रज्ञस्य । यस्यानश्नन्नभुञ्जानो ब्राह्मणो
गृहे वसति । तस्मादनुपेक्षणीयः सर्वावस्थास्वप्यतिथिरित्यर्थः ॥ ८ ॥
[ प्रकाशिका ] एवमुक्त्वा प्रेषितः प्रोषितम्य मृत्योर्द्वारि तिस्रो रात्रीरनश्र्नन्नुवास । ततः प्रोष्यागतं यमं द्वा:स्था वृद्धा ऊचुः । साक्षादग्निरेवातिथिर्ब्राह्मणः सन्गृहान्प्रविशति तस्याग्नेरेतां पाद्यासनादिलक्षणां शान्तिं कुर्वन्ति सन्तस्तदपचारेण दग्धा मा भूमेति । अतो हे वैवस्वत नचिकेतसे पाद्यार्थमुदकं हराहरेत्यर्थः ॥ ७ ॥
अकरणे प्रत्यवायं च दर्शयन्ति स्म । यस्याल्पमेधसोऽल्पप्रज्ञस्य पुरुषस्य गृहेऽनश्नन्नभुञ्जानोऽतिथिर्वसति तस्याशाप्रतीक्षे कामसंकल्पौ । यद्वानुत्पन्नवस्तुविषयेच्छाशा । उत्पन्नवस्तुप्राप्तीच्छा प्रतीक्षा । संगतं सत्संगमं सुनृतां सत्यप्रियवाचम् । इष्टापूर्ते इष्टं यागादि पूर्तं खातादि पुत्रान्पशंश्चैूतदनशनरूपं पापं वृङक्ते वर्जयति नाशयतीत्यर्थः । वृजी वर्जने रुधादित्वाच्छ्नम् । वृजि वर्जन इत्यस्मादिदितो नुमदादित्वाच्छपो लुग्वा ॥ ८ ॥
१ यागजमित्यस्य स्थाने यागादिजमिति पाठः ॥