पृष्ठम्:काठकोपनिषत्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

    भाष्यद्वयोपेता        १॥१॥९

  तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनक्ष्नन्ब्रह्मन्नतिथिर्नमस्यः ।
  नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व।॥९॥
  शान्तसंकल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभि मृत्यो ।
  त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥ १० ॥

[शांकरभाष्यम्] एवमुक्तो मृत्युरुवाच नचिकेतसमुपगम्य पूजापुरःसरम् । तिस्रो रात्रीर्यद्यस्मादवात्सीरुषितवानसि गृहे मे ममानक्ष्नन्हे ब्रह्मन्नतिथि: सन्नमस्यो नमस्कारार्हश्च तस्मान्नमस्ते तुभ्यमस्तु भवतु । हे ब्रह्मन्स्वस्ति भद्रं मेऽस्तु तस्माद्भवतोऽनशनेन मदूगृहवासनिमित्ताद्दोषात्तत्प्राप्त्युपशमेन । यद्यपि भवदनुग्रहेण सर्वे मम स्वस्ति स्यात्तथापि त् त्वदधिकसंप्रसादनार्थमनश- नेनोपोषितामेकैकां रात्रिं प्रति त्रीन्वरान्वृणीष्वाभिप्रेतार्थविशेषान्प्रार्थयस्व मत्तः ॥ ९ ॥

 नचिकेतास्त्वाह—यदि दित्सुर्वरान् शान्तसंकल्प उपशान्तः संकल्पो यस्य मां प्रति यमं प्राप्य किंनु करिष्यति मम पुत्र इति स शान्तसंकल्प सुमनाः प्रसन्नमनाश्च यथा स्याद्वीतमन्युर्विगतरोषश्च गौतमो मम पिता माभि मां प्रति हे मृत्यो किंच त्वत्प्रसृष्टं त्वया विनिर्मुक्तं प्रेषितं गृहं प्रति मामभिवदेत्प्रतीतो लब्धस्मृतिः स एवायं पुत्रो ममागत इत्येवं प्रत्यभिजानन्नित्यर्थः । एतत्प्रयोजनं त्रयाणां वराणां प्रथममाद्यमं वरं वृणे प्रार्थयेय यत्पितुः परितोषणम् ॥ १० ॥

[ प्रकाशिका ] एवं वृद्धै्रुक्तो मृत्युर्नचिकेतसमुवाच । मे गृहे यस्माद्धेतोर्हे ब्रह्मन्नमस्कारार्होऽतिथिस्त्वं तिस्रो रात्रीरभुञ्जान एवावात्सीरित्यर्थः । स्पष्टोऽर्थः । तस्माद्धेतोर्मह्यं स्वस्ति यथा स्यादित्येवमर्थं त्रीन्वरान्प्रति तानुद्दिश्य वृणीष्व प्रार्थय । तव लिप्साभावेऽपि मदनुग्रहार्थमनशनरात्रिसमसंख्याकां- स्त्रीन्वरान्वृणीष्वेति भावः ॥ ९ ॥

 एवं प्रार्थितो नचिकेतास्त्वाह - हे मृत्यो मत्पुत्रो यमं प्राप्य किं करि- ष्यतीति मद्विषयचिन्तारहितः प्रसन्नमना माभि मां प्रति मम पिता गौतमो वीतरोषश्च यथा स्यादित्यर्थः । किं च त्वया गृहाय प्रेषितं माभि मां प्रति प्रतीतो यथापूर्वं प्रीतः सन्वदेत् । यद्राभिवदेदाशिषं प्रयुञ्ज्यात् । " अभिवद- तिनाभिवादये " इति स्मृतिष्वभिवदनस्याशीर्वादे प्रयोगात्। स्पष्टोऽर्थः ॥१०॥