पृष्ठम्:तन्त्रवार्तिकम्.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ तन्त्रवाकेि । इतरेण गतेनादावेकान्तेनेव जीयते ॥ यत्र शीघ्रतरं नास्ति तस्यार्थस्यापहारकम्। चिरेणापि व्रजेत्तत्र दुर्बलं न निवाय्र्यते । न हि येन प्रमाणत्वं लब्धपूर्व कदा चन। तेन तत्सर्वदा लभ्यमित्याज्ञापयतीश्वर सर्वमत्पद्यमानं हि यद्यन्यन विरोधिना । न रुध्यते ततस्तस्य सिद्भिः कालेन लभ्यत यस्य तूत्पद्यमानस्य मूनमेव निकृन्यते । न च यद्दन्नवद्रद्वमात्मानं नैव विन्दति अविरोधे ऽपि तेनात्मा न लब्धव्यः कथं चन ॥ न चापि बाधकाभावाज्ञब्ध श्रात्मति सर्वदा लब्धव्यः स विरोधे ऽपि एर्वसामान्यदर्शनात । तत्र नोत्सर्गमात्रेण सर्वमवावरुध्यते अपवादन वा यस्मादुत्सगो बाधितः क चित् तस्मात्सर्वव बाध्यो ऽसावित्येतदपि नेष्यते । विषयाविषये ज्ञात्वा तेनोत्सर्गापवादयोः । बाधाबाधे विवक्तव्यं न तु सामान्यदर्शनात्। । यो हि सामान्यदृष्टन व्यवहारं निनीषति । कृष्णाच्छेदो भवेत्तस्य मृगदृष्णजलेरपि । बाधितां मृगदृष्णां वा दृष्टा ऋद्गतो ऽप्यसै। विप्रलम्भयादेव न खानादि समाचरेत् ॥ तावदेव हि तोयादिज्ञानखेष्टा प्रमाणता ।