पृष्ठम्:रामायणमञ्जरी.pdf/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
रामायणमञ्जरी


अहो सारस्वतः कोऽपि तरुणः करुणावतः ।
अवतीर्य तव मुने प्रसरः सरसः स्वयम् ॥ २३ ॥
रामस्य चरितं चारु काव्यबन्धो विधीयताम् ।
अस्तु चैवं सुधाधौता कृतकृत्या सरस्वती ॥ २४ ॥
लोकेष्वनेककल्पान्तस्थायि कर्णामृतं सताम् ।
कुरु रामायणं पुण्यं यशो निजमिवोज्ज्वलम् ॥ २५ ॥
इत्युक्त्वान्तर्हिते क्षिप्रं प्रजासृजि मुनीश्वरः ।
कर्तुं प्रचक्रमे रामचरितं ज्ञानलोचनः ॥ २६ ॥
उपस्पृश्योदकं मौनी योगी रामकथां पुनः।
प्राचीनाग्रेषु दर्भेषु हृदि कर्तुं समादधे ॥ २७ ॥
प्राप्तराज्यस्य रामस्य वृत्तं वृत्तपदोचितम् ।
भविष्यच्चरितोपेतं सर्गबन्धे विधाय सः ॥२८॥
मुनीन्द्रः पाठयामास रामपुत्रौ वनेचरौ ।
गीतस्वराविष्टपदौ विभक्तमधुरस्वरौ ॥ २९ ॥
कुशो लवश्च तौ ख्यातौ पुरो मुनिमनीषिणाम् ।
अगायतां मुनेः काव्यं भूमिपालसभासु च ॥ ३० ॥
कदाचिद्गूढवेशौ तौ ह्यश्वमेधमखे पितुः ।
रामायणं रसोदारं राघवस्यापि गायताम् ॥ ३१ ॥
कोसलाख्ये जानपदे सरयूतीरसंश्रये ।
अस्त्ययोध्येति नगरी रम्या कर्मावधिर्विधेः ॥ ३२॥
स्फारस्फटिकसौधांशुहासिनी निर्मिता स्वयम् ।
मनुना मनुजेन्द्रेण मूर्ती कीर्तिरिवात्मनः ।। ३३ ।।
मणिमन्दिरसंभारप्रभावलयमालिता।
कीर्तिकल्लोलिनी कूले बिम्बितेवामरावती ॥ ३४ ॥


१. गीतस्वराविष्टपरौ' ग. २. 'रामस्याग्रेऽपि' ग; परंतु अटो लडि दुर्वारत्वेन 's यताम्' इति स्यात्. ३. 'रसा' क. ४. 'कर्म्या' ग.