पृष्ठम्:रामायणमञ्जरी.pdf/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला।

काव्यमाला। गुणाभिरामः श्रीरामो विरामो वैरिसंपदाम् । जगद्येन हरेर्वक्षः कौस्तुभेनेव राजितम् ॥ १० ॥ जायासमयबद्धस्य पितुर्दशरथस्य यः। शिरसा विषमामाज्ञां हेममालामिवाग्रहीत् ॥ ११ ॥ दारापहारकोपानौ मुखैदेशमुखस्य यः । ददौ रक्ताज्यसंसिक्तै रसाक्ताः श्रीफलाहुतीः ॥ १२ ॥ तस्याद्य दोष्णि विन्यस्य भरं विश्वंभरापतेः । शेषः कुवलयं मूर्धा घत्ते कुवलयं यथा ॥ १३ ॥ उक्त्वेति याते देवर्षों हर्षनिर्भरमानसः । मुनीन्द्रोऽपि ययौ क्षिप्रं विस्मयावेशवश्यताम् ॥ १४ ॥ स गत्वा तमसातीरं तीर्थे सात्वा कृतार्चनः । चचार शिष्यसहितः पुण्यासु वनभूमिषु ॥ १५ ॥ तस्याने क्रौञ्चमिथुनादेकं मन्मथमोहितम् । स ददर्श निषादेन निहतं निशितेषुणा ॥ १६ ॥ ततः श्लोकच्छलात्तस्य शोकानलसमीरितः । दयया हृदयालीनो निर्गतः करुणो रसः ॥ १७ ॥ अहो निष्करुणेनेदं निषादेन विषादकृत् । कृतं कुकृतशीलेन कर्म मर्मविदारणम् ॥ १८ ॥ मा निषाद प्रतिष्टां त्वमालब्धाः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ १९ ॥ इत्युक्त्वा करुणासिन्धुः समीपस्थं पुनः पुनः । श्लोकं पठन्मुहुः शोकादिति शिष्यमभाषत ॥२०॥ ततस्तत्र नदीतीरे स्थितः शिष्ययुतो मुनिः । ददर्श श्लोकसंतोषात्स्वयं ब्रह्माणमागतम् ॥ २१ ॥ मुनिनाभ्यर्चितस्तत्र पाद्यपूजासनादिभिः । सोऽवदत्पुण्यपीयूषं दन्तकान्त्या किरन्निव ॥ २२ ॥