पृष्ठम्:रामायणमञ्जरी.pdf/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला।


सानन्दसुन्दरीवृन्दवदनैः कृतचन्द्रिका ।
राजधानीव चन्द्रस्य पुत्रपौत्रशतैर्वृता ॥ ३५ ॥
तस्यां दशरथो नाम बभूवेक्ष्वाकुनन्दनः ।
भुजेन भूमिवलयं वलयं च बभार यः ॥ ३६ ॥
भिन्नेभमुक्तातारासु स्फारस्वरणरात्रिषु ।
यशश्चन्द्रः स्वयं भेजे राज्यश्रीरभिसारिका || ३७ ॥
गम्भीरः सत्त्वरत्नाढ्यः पुरुषोत्तमसेवितः ।
समुद्रसदृशोऽप्यासीद्विमुद्रो यः सदार्थिषु ॥ ३८ ॥
गजेन्द्रदानसलिलप्रवाहैर्यस्य दिग्जये ।
यमुनालिङ्गनप्रीतिमवाप सरितां पतिः ॥ ३९ ॥
क हारः क च कर्पूरं क च मन्दारमालिका।
इति यद्यशसा व्योनि शुभ्रे खर्गाङ्गना जगुः ॥ ४०॥
युधि पीतमरातीनां यत्खझेनानिशं यशः ।
तद्वान्तं लग्नभिन्नेभकुम्भमुक्ताफलच्छलैः ॥ ४१॥
त्रैलोक्यजयिनः शक्रः कथं तस्योपमास्पदम् ।
अमात्या मुनयो यस्य वशिष्ठश्व पुरोहितः ॥ ४२ ॥
संधिविग्रहकालज्ञाः सर्वप्रकृतिचिन्तकाः ।
भूभारदिग्द्विपाधीरा बभूवुस्तस्य मन्त्रिणः ॥ ४३ ॥
संघिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः ।
अशोको धर्मपालश्च सुमन्त्रश्चेति संमतः ॥ ४४ ॥
पुत्रार्थिनं कदाचित्तं चिन्तासक्तमथाब्रवीत् ।
अश्वमेधकृतोद्योगं सुमन्द्रो मन्त्रिणां वरः ॥ ४५ ॥
देव चिन्तापरिस्पन्दमन्दीकृतवपुः कथम् ।
उत्ताम्यसि, भविष्यन्ति सर्वथा तनयास्तव ॥ ४६ ॥


1. 'स्फारासु' स्यात्. २. विष्णुः, पुरुघूत्तमश्च. ३. 'धृष्टिर्जयन्तो विजयः सुराष्ट्रो

राष्ट्रवर्धनः । अकोपो धर्मपालश्च सुमन्त्रश्वाष्टमोऽर्थवित् ॥' इति. रामायणे. ४. 'श्चाति' स्यात 'श्चेति संमताः' स्त्र.