पृष्ठम्:रामायणमञ्जरी.pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
रामायणमञ्जरी ।

सनत्कुमारो भगवान्पुरा मुनिसभास्थितः ।
भाविनीं त्वत्कथामूचे विमलज्ञानलोचनः ॥ १७॥
राजा दशरथः पुत्राल्पवित्रचरितव्रतान् ।
ऋष्यशृङ्गस्य यागेन संप्राप्स्यति कुलोचितान् ॥ ४८ ॥
विभाण्डकस्य स मुनेः कश्यपस्यात्मजो मुनिः ।
ऋष्यशृङ्गो नृसङ्गानामनभिज्ञो मृगीसुतः ॥ ४९ ॥
स ब्रह्मचारी विपिने हरिणानामकल्मषः ।
ब्रह्मचारी चचारोग्रं तपस्तपनसंनिभः ॥ १० ॥
अस्मिन्नवसरे राज्ञो लोमपादस्य चाभवत् ।
अवृष्टिरङ्गविषये विप्रशापसमुद्भवा ॥ ११ ॥
विपत्तिशमनं तत्र स ज्ञात्वा ब्रह्मणाज्ञया ।
ऋष्यशृङ्गो बभूवाशु तदानयनसादरः ॥ ५२ ॥
अदृश्यं तेजसा ज्ञात्वा तमपृच्छन्नसंभृतः ।
दिदेश चास्यानयने प्रगल्भा वारयोषितः ॥ १३ ॥
विलासहासकुसुमास्ता लोलालकषट्पदाः ।
ययुस्तपोवनं तस्य रुचिराधरपल्लवाः ॥ ५४॥
विभाण्डकमुनेर्भीत्या लताजालान्तरेषु ताः ।
तस्थुस्तद्रहितं कालं तत्सुतं च समाययुः ॥ ५५ ॥
तान्विलोक्यानभिज्ञोऽपि स जहर्ष जितेन्द्रियः ।
सहजैवाभिलाषेषु जन्तूनां जन्मवासना ॥ ५६ ॥
सानन्दस्तान्स विज्ञाय साधून्मुनिकुमारकान् ।
तत्केलिविभ्रमकलाविलासरसिकोऽभवत् ।। ५७ ॥
अयत्नालिङ्गनैस्तुङ्गकुचकुम्भपुरःसरैः।
ह्रियमाणः स शनकैर्नीतस्ताभिर्निजां पुरीम् ॥ ५८ ॥


3: 'काश्यपस्या' स्यात्. २. 'तपः पवन' ग, ३. 'विपत्प्रश' ग. ४: पुस्तकत्रयेऽपि

त्रुटिचिटं न दृश्यते, तथापि त्रुदितं प्रतीयते. यद्वा 'लोमपादो' इति पाठो भवेत्,