चेटः--अध इं । [ अथ किम् ।।
विटः--मदीयं न्यासमुपनय ।।
शकारः----कीदिशे णाशे ? । [ कीदृशो न्यासः ? ।]
विटः–वसन्तसेना ।
शकारः-गडा । [गता ।]
विटः--क्व ! ।।
शकारः--भावश्श ज्जेव पिश्टदो । [भावस्यैव पृष्ठतः ।]
विटः---( सवितर्कम् ) न गता खलु सा तया दिशा ।
शकारः-तुम कदमाए दिशाए गडे ? । [त्वं कतमया दिशा गतः १ ।]
विटः-पूर्वया दिशा ।।
शकारः--शा वि दक्खिणाए गडा। [ सापि दक्षिणया गता ।।
विटः----अहं दक्षिणया ।।
शकारः-शा वि उत्तलाए । [ साप्युत्तरया।]
विटः–अव्याकुलं कथयसि, न शुद्धथति मेऽन्तरात्मा; तत्कथय सत्यम् ।
शकारः-शवामि भावश्श शीशं अत्तणकेलकेहिं पादेहिं । तो शंठावेहि हिअअं । एशा मए मालिदा। [शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम्, ततः संस्थापय हृदयम् । एषा मया मारिता !!
विटः--( सविषादम् ) सत्यं त्वया व्यापादिता ।
शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम् । संस्थापय हृदयम् ; एषा मया मारिता ॥ यदि मम न प्रत्येषि पराक्रमे, ततः प्रेक्षस्व राष्ट्रिक (य) श्यालस्य शूरत्वम् । -.. –.. . - -