पृष्ठम्:मृच्छकटिकम्.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१६
मृच्छकटिके

 चेटः--अध इं । [ अथ किम् ।।

 विटः--मदीयं न्यासमुपनय ।।

 शकारः----कीदिशे णाशे ? । [ कीदृशो न्यासः ? ।]

 विटः–वसन्तसेना ।

 शकारः-गडा । [गता ।]

 विटः--क्व ! ।।

 शकारः--भावश्श ज्जेव पिश्टदो । [भावस्यैव पृष्ठतः ।]

 विटः---( सवितर्कम् ) न गता खलु सा तया दिशा ।

 शकारः-तुम कदमाए दिशाए गडे ? । [त्वं कतमया दिशा गतः १ ।]

 विटः-पूर्वया दिशा ।।

 शकारः--शा वि दक्खिणाए गडा। [ सापि दक्षिणया गता ।।

 विटः----अहं दक्षिणया ।।

 शकारः-शा वि उत्तलाए । [ साप्युत्तरया।]

 विटः–अव्याकुलं कथयसि, न शुद्धथति मेऽन्तरात्मा; तत्कथय सत्यम् ।

 शकारः-शवामि भावश्श शीशं अत्तणकेलकेहिं पादेहिं । तो शंठावेहि हिअअं । एशा मए मालिदा। [शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम्, ततः संस्थापय हृदयम् । एषा मया मारिता !!

 विटः--( सविषादम् ) सत्यं त्वया व्यापादिता ।


शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम् । संस्थापय हृदयम् ; एषा मया मारिता ॥ यदि मम न प्रत्येषि पराक्रमे, ततः प्रेक्षस्व राष्ट्रिक (य) श्यालस्य शूरत्वम् । -.. –.. . - -