समासादिता । तस्मिन्काले मया रोषिता, सांप्रतं पादयोः पतिता प्रसादयामि । ]
विटः---साध्वभिहितम् ।।
शकारः---एशे पादेशुं पडेमि । ( इति वसन्तसेनामुपसृत्य ) अत्तिके, अम्बिके । शुणु मम विण्णत्तिं ।।
एशे पड़ामि चलणेशु विशालणेत्ते ! |
एष पादयोः पतामि । मातः, अम्बिके! शृणु मम विज्ञप्तिम् । एष पतामि चरणयोर्विशालनेत्रे! हस्ताञ्जलिं दशनखे तव शुद्धदन्ति !। यत्तव मयापकृतं मदनातुरेण तत्क्षामितासि वरगात्रि ! तवास्मि दासः ।]
वसन्तसेना--( सक्रोधम् ) अवेहि, अण्णज्जं मंतेसि । [ अपेहि, अनार्यं मन्त्रयसि ।] ( इति पादेन ताडयति )
शकारः-( सक्रोधम् )
जे चुंबिदे अंबिकमादुकेहिं गदे ण देवाण वि जे पणामं । |
अले थावलआ चेडा ! कहिं तुए एशा शमाशादिदा ।।
[यच्चुम्बितमम्बिकामातृकाभिर्गतं न देवानामपि यत्प्रणामम् । |
अरे स्थावरक चेट ! कुत्र त्वयैषा समासादिता ? ।]
द्धम् ॥ तेन ह्यपूर्वा श्रीः समासादिता । लोशाविदा रोपिता ॥ हे अत्तिके हे अम्बिके । एशे पडामि इत्यादि । वसन्ततिलकम् । एष पतामि चरणयोर्विशालनेत्रे हस्ताञ्जलिं दशनखे तव शुद्धदन्ति । यत्तव मयापकृतं मदनातुरेण तत्क्षमस्वेदानीं वरगात्रि । तवास्मि दासः ॥ १८ ॥ जे चुंबिदे इति । उपजात्यो ।