पृष्ठम्:मृच्छकटिकम्.pdf/२१०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
मृच्छकटिके

समासादिता । तस्मिन्काले मया रोषिता, सांप्रतं पादयोः पतिता प्रसादयामि । ]

 विटः---साध्वभिहितम् ।।

 शकारः---एशे पादेशुं पडेमि । ( इति वसन्तसेनामुपसृत्य ) अत्तिके, अम्बिके । शुणु मम विण्णत्तिं ।।

एशे पड़ामि चलणेशु विशालणेत्ते !
हश्तंजलिं दशणहे तत्र शुद्धदंति !।
जं तं मए अवकिदं मदणातुलेण
तं खम्मिदाशि वलगत्ति ! तव म्हि दाशे ॥ १८ ॥

एष पादयोः पतामि । मातः, अम्बिके! शृणु मम विज्ञप्तिम् । एष पतामि चरणयोर्विशालनेत्रे! हस्ताञ्जलिं दशनखे तव शुद्धदन्ति !। यत्तव मयापकृतं मदनातुरेण तत्क्षामितासि वरगात्रि ! तवास्मि दासः ।]

 वसन्तसेना--( सक्रोधम् ) अवेहि, अण्णज्जं मंतेसि । [ अपेहि, अनार्यं मन्त्रयसि ।] ( इति पादेन ताडयति )

 शकारः-( सक्रोधम् )

जे चुंबिदे अंबिकमादुकेहिं गदे ण देवाण वि जे पणामं ।
शे पाडिदे पादतलेण मुंडे वणे शिआलेण जधा मुदंगे ॥ १९ ॥

 अले थावलआ चेडा ! कहिं तुए एशा शमाशादिदा ।।

[यच्चुम्बितमम्बिकामातृकाभिर्गतं न देवानामपि यत्प्रणामम् ।
तत्पातितं पादतलेन मुण्डे वने शृगालेन यथा मृताङ्गम् ।।

अरे स्थावरक चेट ! कुत्र त्वयैषा समासादिता ? ।]


द्धम् ॥ तेन ह्यपूर्वा श्रीः समासादिता । लोशाविदा रोपिता ॥ हे अत्तिके हे अम्बिके । एशे पडामि इत्यादि । वसन्ततिलकम् । एष पतामि चरणयोर्विशालनेत्रे हस्ताञ्जलिं दशनखे तव शुद्धदन्ति । यत्तव मयापकृतं मदनातुरेण तत्क्षमस्वेदानीं वरगात्रि । तवास्मि दासः ॥ १८ ॥ जे चुंबिदे इति । उपजात्यो ।