पृष्ठम्:मृच्छकटिकम्.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०१
अष्टमोऽङ्कः

 विटः--किमनेन निरूपितेन ? । यदि पुनरुद्यानपरम्परया पद्भयामेव नगरीमुज्जयिनीं प्रविशावः, तदा को दोषः स्यात् ।।

 शकारः--एवं किदे किं भोदि १ } [ एवं कृते किं भवति ? ।।

 विटः–एवं कृते व्यायामः सेवितो धुर्याणां च परिश्रमः परिहृतो भवति ।।

 शकारः–एवं भोदु । थावलआ चेडा 1 णेह पवहणं । अधवा च्यिश्ट । च्यिश्ट; देवदाणं बम्हणाणं च अग्गदो चलणेण गच्छामि । णहि णहि, पवहाणं अहिलुहिअ गच्छामि, जेण दूलदो मं पेक्खिअ

 भणिश्शंति--‘एशे शे लश्टिअशाले भश्टालके गच्छदि' । [एवं भवतु । स्थावरक चेट ! नय प्रवहणम् । अथवा तिष्ठ तिष्ठ; देवतानां ब्राह्म- णानां चाग्रतश्चरणेन गच्छामि। नहि नहि, प्रवहणमधिरुह्य गच्छामि, येन दूरतो मां प्रेक्ष्य भणिष्यन्ति–'एष स राष्ट्रियश्यालो भट्टारको गच्छति' ।]

 विटः---{स्वगतम् ) दुष्करं विषमौषधीकर्तुम् । भवतु । एवं तावत् । (प्रकाशम् ) काणेलीमातः ! एषा वसन्तसेना भवन्तुमभिसारयितुमागता ।

 वसन्तसेना--संत पावं संत पावं । [ शान्तं पापम्, शान्त पापम् ।

 शकारः-(सहर्षम् ) भावे भावे, मं पबलपुलिशं मणुश्शं वाशुदेवकं । [भावे भाव ! मां प्रवरपुरुषं मनुष्यं वासुदेवकम् ।

 विटः-अथ किम् ।

 शकारः-- तेण हि अपुव्वा शिली शमशादिदा । तश्शिं काले मए लोशाविदा, शंपदं पादेशुं पडिअ पशादेमि । [ तेन ह्यपूर्वा श्रीः


अथवेत्यतलस्थोक्तिः । शृगाला उड्डीयन्तीत्यादि । चतुष्टयमपक्रमम् । देवदाणं बम्हणाणं अग्गदो चलणेण गच्छामि । नहि नहीति न्यायविरु-