पृष्ठम्:मृच्छकटिकम्.pdf/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३१
पञ्चमोऽङ्कः

अपि च,--

केशवगात्रश्यामः कुटिलबलाकावलीरचितशङ्खः ।
विद्युद्गुणकौशेयश्चक्रधर इवोन्नतो मेघः ॥ ३ ॥

एता निषिक्तरजतद्रवसंनिकाशा
धारा जवेन पतिता जलदोदरेभ्यः ।
विद्युत्प्रदीपशिखया क्षणनष्टद्दष्टा-
 श्छिन्ना इवाम्बरपटस्य दशाः पतन्ति ॥ ४ ॥

संसक्तैरिव चक्रवाकमिथुनैर्हंसैः प्रडीनैरिव
व्याविद्धैरिव मीनचक्रमकरैर्हर्म्यैरिव प्रोञ्छितैः ।
तैस्तैराकृतिविस्तरैरनुगतैर्मेघैः समभ्युन्नतैः
पत्रच्छेद्यमिवेह भाति गगनं विश्लेषितैर्वायुना ॥ ५ ॥

 एतत् तद् धृतराष्ट्रवक्त्रसदृशं मेघान्धकारं नभो ।
हृष्टो गर्जति चातिदर्पितबलो दुर्योधनो वा शिखी ।
अक्षद्यूतजितो युधिष्ठिर इवाध्वानं गतः कोकिलो ।
हंसाः संप्रति पाण्डवा इव वनादज्ञातचर्यां गताः ॥ ६ ॥

( विचिन्त्य ) चिरं खलु कालो मैत्रेयस्य वसन्तसेनायाः सकाशं गतस्य । नाद्याप्यागच्छति ।

( प्रविश्य )

 विदूषकः--अहो गणिआए लोभो अदक्खिणदा अ, जदो ण कधा वि किदा अण्णा । अणेकहा सिणेहाणुसारं भणिअ किं पि, एवमेअ गहिदा रअणावली । एत्तिए ऋद्धीए ण तए अहं भणिदो -अज्ज-


संमतः । खं आकाशम् ॥ २ ॥ केशवेति ।। ३ ।। एता इति । निषिक्तं द्रावितम् ॥ ४ ॥ संसक्तैरिति । प्रडीनैरिति कर्मणि क्तः ( ? )। व्याविद्धैर्भ्रान्तैः । चक्रं समूहः । पत्रस्य छेदः खण्डनं विचलं (?) यत्र चित्रे तत्पत्रछेद्यं चित्रम् । तदिव गगनं शोभते ॥ ५ ॥ एतदिति । धृतराष्ट्रवक्त्रसदृशं नष्टच- न्द्रार्कत्वात् । वा इवार्थे । शिखी मयूरः । वनादिति त्यलोपे कर्मणि पञ्चमी ।


पाठा०---१ अणाअरेण ज्जेब्व अभणिअ (=अनादरेणैवाभणित्वा ).