पृष्ठम्:मृच्छकटिकम्.pdf/१३८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१३०
मृच्छकटिके

पञ्चमोऽङ्कः

( ततः प्रविशत्यासनस्थः सोत्कण्ठश्चारुदत्तः )

 चारुदत्तः–( ऊर्ध्वमवलोक्य ) उन्नमत्यकालदुर्दिनम् । यदेतत्

आलोकितं गृहशिखण्डिभिरुत्कलापै-
हंसैर्यियासुभिरपाकृतमुन्मनस्कः ।
आकालिकं सपदि दुर्दिनमन्तरीक्ष-
मुत्कण्ठितस्य हृदयं च समं रुणद्धि ॥ १।।

अपि च,-

मेघो जलार्द्रमहिषोदरभृङ्गनीलो
विद्युत्प्रभाररचितपीतपटोत्तरीयः।
आभाति संहृतबलाकगृहीतशङ्खः
खं केशवोऽपर इवाक्रमितुं प्रवृत्तः ॥ २ ॥


पूर्वाङ्केऽङ्कावतारेणैव सूचितस्य प्रकरणनायकस्य प्रवेशः । तथा चोक्तम् प्रवेशश्चूलिका चैव तथा विष्कम्भोऽपरः । अङ्कावतारोऽङ्कमुखमर्थोपक्षेपपञ्चकम् ॥' इति । प्रवेशयतीति प्रवेशः । पचाद्यच् । प्रवेशको ण्वुलन्त उच्यते । अधमपाप्रयोज्यः प्रवेशकः । तदुक्तम्----‘भृत्यवर्गकथावच्च कर्तव्यस्तु प्रवेशकः । अन्तर्जवनिकासंस्थैस्तथा मागधबन्दिभिः ॥ अर्थोपक्षेपणं यत्र क्रियते स हि चूलिका । विष्कम्भस्तु द्विधा सोऽयं शुद्धः संकीर्ण एव च । शुद्धो मध्यमपात्रेण संकीर्णो मध्यमाधमैः ॥” इति । आलोकितमिति । अपाकृतं निरस्तम् । अनभिनन्दितमिति यावत् ॥ १ ॥ मेघ इति । 'बलाक'शब्दः पुंलिङ्गोऽप्येषां


टिप्प,---1 अत्राङ्के तावत् आ समाप्ति वर्षर्तुवर्णने चारुदत्तेन वसन्तसेनयविटेन च यथायथं क्रियते । तदिदं वसन्तसेना-चारुदत्तयंरन्योन्यानुरागोद्दीपनविभावत्वेनावतरतीति बोध्यम् । एतद्वियति दृश्यमानमकालिकं यद्दुर्दिनं मेघाच्छन्नं दिनं तदवलोकितम्, तेन विरहिणां चेतस: कातरत्वं प्रियमिलनौत्सुक्यं च भवतीत्याशयः। 2 जलार्द्रमहिषस्योदरं भृङ्गश्च ततद्वन्नीलः । गज़महिषादीनां स्वतः श्यामत्वेऽपि जलार्द्रतयामतिश्यामत्वमुदरप्रदेशे चाधिकतरमिति द्रष्टव्यम् । 3 वामनावतारे श्रीहरि

र्यथा गगनमाक्रमितुं प्रवृत्तः सन् रराज तद्वन्मेघ इति पूर्णोपमालंकारः ।।