पृष्ठम्:मालविकाग्निमित्रम्.djvu/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३
॥ मालविकाग्निमित्रम् ॥
विदूषकः[१]जह देख्खामि तह सव्वहा एक्कन्तसुहिदो भवं
भविस्सदि ।
राजा । सखे कथमिव ।
विदूषकः[२]अज्ज किल देवीए धारिणीए पण्डिदकोसिई भणिदा । भअवदि जइ तुमं पसाहणगव्वं वहेसि तं दंसेहि
मालविआए सरीरे वेदभ्भअं विवाहणेवथ्थंति । ता
सविसेसालंकिदा मालविआ । तत्तहोदी कदाविभ्भवदो
मणोरहं पूरेइ ।
राजा। सखे मदपेक्षानुवृत्त्या निवृत्तेर्ष्याया धारिण्याः पूर्वचरितैः
संभाव्यत एतत् ।
प्रती° । उपगम्य । [३]जेदु भट्टा । देवी विण्णवेदि तवणीआसोअस्स
कुसुमसोहादंसणेण मह आरम्भो सफलो करीअदुत्ति ।

1. F दख्खामि.--Our MSS. do
not give "तह." We ac-
cording to G.--B सुहितो.
2. A B C D E read त्ति after
"भविस्सदि."
4. B E कोसिइ.
5. A C D E F वहसि.
6. A D E णेवछ्छं; F णेपछ्छं.
7. D कदाचि for "कदाविभ्."
8. A B C D E पुराएइ.
11. A विणवेदि.
12. F सोहादस्सणेण--A B C D E
महारम्भो for "मह आरम्भो."
--A B C D सफलं.

  1. यथा पश्यामि तथा सर्वथैकान्तसुखितो भवान्भविष्यति ।
  2. अद्य किल देव्या धारिण्या पण्डितकौशिको भणिता । भगवति यदि त्वं प्रसाधनगर्वं वहसि तद्दर्शय मालविकायाः शरीरे वैदर्भकं विवाहनेपथ्यमिति । तत्सविशेषालंकृता मालविका । तत्रभवतो कदाचिद्भवतो मनोरथं पूरयेत् ।
  3. जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमशोभादर्शनेन ममारम्भः सफलः क्रियतामिति ।