सामग्री पर जाएँ

पृष्ठम्:मालविकाग्निमित्रम्.djvu/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२
॥ पञ्चमोङ्कः ॥

। नेपथ्ये वैतालिकौ ।

दिष्ट्या दण्डेनैवारिशिरःसु वर्तते देवः ।
प्रथमः
परभृतकलव्याहारेषु वमात्तरतिर्मधुं
नयसि विदिशातीरोद्यानेष्वनङ्ग इवाङ्गवान् ।
विजयकरिणामालानाङ्कैरुपोडढबलस्य ते
वरद वरदारोधोवृक्षै: सहावनतो रिपुः ॥ १ ॥
द्वितीयः
विरचितपदं वीरप्रीत्या सुरोपमसूरिभिश्
चरितमुभयोर्मध्येकृत्य स्थितं कथकैशिकान् ।
तव हृतवतो दण्डानीकैर्विदर्भपतेः श्रियं
परिघगुरुभिर्दोर्भि: शौरेः प्रसह्य च रुक्मिणीम् ।। 2 ।।
प्रती° । १एसो जअसद्दसूहअपथ्धाणो इदो एव्व आअ-
छ्ुछदि देवो । अहंवि दाव इमस्स पमुहादो किंवि ओसरिअ एदं मुहालिन्दतोरणं समस्सिदा होमि । एकान्ते
स्थिता ।

। ततः प्रविशति सवयस्यो राजा ।

राजा
कान्तां विचिन्त्य सुलभेतरसंप्रयोगां
श्रुत्वा विदर्भपतिमानमितं बलैश्व ।
धाराभिरातप इवाभिहतं सरोजं
दुःखायते च हृदयं सुखमश्नुते च ॥ ३ ॥

१. एष जयशब्दसूचितप्रस्थान इत एवागच्छति देव: । अहमपि तावदस्य प्रमुखतः किं-

चिदपसृत्यैतन्मुखालिन्दतोरणं समाश्रिता भवामि ।

13. B जयसद°- F आअछ्छइ.