पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६४
[ सर्गः १२
कुमारसंभवे


प्रमथप्रभृतीनां पुरतोऽग्रे । अनेन मर्यादातिरिक्तकरणस्य दुर्विधेयत्वमुक्तम् । पाद- पीठस्य चरणाधारपीठविशेषस्य प्रान्तक्षितिः समीपभूमिस्तामध्यधिकृत्य, आधार- भूतां कृत्वेत्यर्थः। अत्र 'अधिशब्देनाधिकरणमाधारः। स चौपश्लेषिकः । अव्यया- नामाकृतिगणत्वादधिशब्दोऽत्राधिकरणपर्यायोऽव्ययम् । अन्यथामन्तत्वमन्वेषणी- यम् । नम्रतरैः शिरोभिः पुरारिं महेश्वरं क्रमतः क्रमेण प्रणेमुर्नमश्चक्रुः ॥ ३१॥

 गणोपनीते प्रभुणोपदिष्टः शुभासने हेममये पुरस्तात् ।
 प्रापोपविश्य प्रमुदं सुरेन्द्रः प्रभुप्रसादो हि मुदे न कस्य ॥३२॥

 गणेति ॥ सुरेन्द्रो गणेन केनचिदुपनीते, प्रभुशासनेनेति शेषः । तथा हेममये सुवर्णमये शुभासने प्रभुणा हरेणोपदिष्ट आरोढुमाज्ञप्तः सन् । पुरस्ता- त्प्रभोरग्रत एवोपविश्य स्थित्वा प्रकृष्टां मुदं हर्षं प्राप । तथा हि-प्रभुप्रसादः प्रभुकर्तृकोऽनुग्रहः कस्यानुगस्य मुदे प्रीत्यै न भवति ? अपि तु सर्वस्यापीति काक्वा व्याख्येयम् ॥ ३२ ॥

 क्रमेण चान्येऽपि विलोकनेन संभाविताः सस्मितमीश्वरेण ।
 उपाविशंस्तोषविशेषमाप्ता दृग्गोचरे तस्य सुराः समग्राः ॥ ३३ ॥

 क्रमेणेति ॥ ईश्वरेण महेश्वरेण क्रमेणानुक्रमतोऽन्येऽपि च समग्राः सुराः सस्मितं सप्रसादव्यञ्जकहासं यथा तथा विलोकनेन संभाविता आदृता अत एव तोषविशेषं संतोषाधिक्यमाप्ताः प्राप्ताः सन्तस्तस्य प्रभोर्दृग्गोचरे दृष्टिविषय उपावि- शंस्तस्थुः, यथा युगपदेव भगवान्सर्वानवलोकयेत्तथैव सर्वे तस्थुरित्यर्थः ॥ ३३ ॥

 अथाह देवो बलवैरिमुख्यान् गीर्वाणवर्गान्करुणार्द्रचेताः ।
 कृताञ्जलीकानसुराभिभूतान् ध्वस्तश्रियः श्रान्तमुखानवेक्ष्य ॥३४॥

अथेति ॥ अथ देवो हरो बलवैरीन्द्रः स मुख्यो येषु तथाभूतान्गीर्वाणव- र्गान्देवसमूहान् । असुरेण तारकेणाभिभूताञ्जितानत एव ध्वस्तश्रियो नष्टलक्ष्मी- कानत एव श्रान्तं खिन्नं मुखं येषाम् , नष्टमुखतेजसः इत्यर्थः । अत एव कष्ट-

पाठा०-१ उपदिष्टे. २ नृपासने; ध्रुवासने. ३ प्रमदम्. ४ प्रभोः प्रसादः. ५ अन्येन. ६ उपाविशुः, ७ पुरः समेताः. ८ गीर्वाणमुख्यान्. ९ असुरावधूतान्.

१० ध्वस्तप्रियान्. ११ शीर्णमुखान्.