पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २६-३१]
२६३
शिवं प्रणम्येन्द्रेण स्वकृतार्थत्वसंभावनम्

प्रीत्या निमित्तेन सुधासारम् , अमृततुल्यमित्यर्थः । निधारयति नितरां धारां धारारूपं करोति । 'तत्करोति-' (ग० २०४ ) इति करोत्यर्थे णिच् । सुधासार- धारां वर्षतेत्यर्थः । एवंभूतेनेव विलोकनेन दर्शनेनानुजग्राह, तदुपर्यनुग्रहमकार्षी- दित्यर्थः । स्वामिनां प्रसादपूर्वकमवलोकनमेव भृत्यानामुपरि महाननुग्रह इति भावः ॥२८॥

 किरीटकोटिच्युतपारिजातपुष्पोत्करेणानमितेन मूर्ध्ना ।
 स्वर्गैकवन्द्यो जगदेकवन्द्यं तं देवदेवं प्रणनाम देवः ॥ २९ ॥

 किरीटेति ॥ स्वर्ग एवैकं केवलं वन्द्यो नमस्करणीयो देव इन्द्रः । आनमिते- नात एव किरीटकोठ्याऽश्च्युतोऽधःपतितः पारिजातपुष्पाणां मन्दारकुसुमानामुत्करः समूहो यस्मात्तथाभूतेन मूर्ध्ना शिरसा जगतामेकमेव वन्द्यं नमस्करणीयम् , एत- त्सदृशो जगतां वन्द्यतयाऽन्यो न विद्यत इत्यर्थः । देवदेवं महेश्वरं प्रणनाम नमश्चक्रे ॥ २९॥

 अनेकलोकैकनमस्क्रियार्हं महेश्वरं तं त्रिदशेश्वरः सः।
 भक्त्या नमस्कृत्य कृतार्थतायाः पात्रं पवित्रं परमं बभूव ॥ ३०॥

 अनेकेति ॥ स त्रिदशेश्वर इन्द्रो भक्त्या, भक्तिपूर्वकमित्यर्थः । अनेक त्रयो ये लोकास्तेषामेक एव नमस्क्रियायामर्ह उचितस्तथोक्तं तं महेश्वरं नमस्कृत्य । 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इत्युक्तेर्द्वितीया । परममत्यन्तं पवित्रं विशदं कृतार्थतायाः कृतकृत्यत्वस्य पात्रं स्थानं बभूव, महेन्द्रो महेश्वरं प्रणम्य कृतकृत्योऽभूदित्यर्थः ।। ३० ॥

 सुभक्तिभाजामधि पादपीठं प्रान्तक्षितिं नम्रतरैः शिरोभिः ।
 ततः प्रणेमुः पुरतो गणानां गणाः सुराणां क्रमतः पुरारिम् सुभक्तीति ॥३१॥

 सुभक्तीति ॥ ततोऽनन्तरम् । सुभक्तिं भजन्ति तेषाम् । 'भजो ण्विः' { पा. ३।२।६२ ) इति ण्विः । सुराणामिन्द्रातिरिक्तानां सुराणां गणाः । गणानां

पाठा०-१ पुष्पेण भक्त्या. २ स्वर्गैकवन्द्यः. ३ जगदेकदेवं ननाम देवः स सहस्रनेत्रः. ४ त्रिदिवेश्वरः, ५ पादपीठं प्रीताक्षिभिः; पादपीठं प्रान्तीकृतैः.

६ सुराणाम्. ७ सशक्राः स्मरारिम् ; सुरेन्द्रक्रमतः पुरारिम् .