पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३२-३७]
२६५
देवेभ्यो हरस्यागमनहेतुपरिप्रश्नः

श्लो० ३२-३७] देवेभ्यो हरस्यागमनहेतुपरिप्रश्नः २६५

निवृत्त्यर्थं कृतोऽञ्जलिर्यैस्तानवेक्ष्य दृष्ट्वा करुणयार्द्रं स्निग्धं चेतो यस्य तथाभूतः सन्नाहोवाच ॥३४॥

अहो बतानन्तपराक्रमाणां दिवौकसो! वीरवरायुधानाम् । हिमोदबिन्दुग्लपितस्य किं वः पद्मस्य दैन्यं दधते मुखानि ॥३५॥

अहो इति ॥ 'अहो'शब्दोऽत्र हेशब्दपर्यायः । हे दिवौकसो देवाः! अनन्त- पराक्रमाणामपारविक्रमाणाम् । तथा वीरान्वृणतेऽभिलषन्ति, वीरहस्तजिगमिषा- शालीनीत्यर्थः । एवंभूतान्यायुधानि येषां तथाभूतानां वो युष्माकं मुखानि हिमत्य यदुदमुदकं तस्य यो बिन्दुस्तेन ग्लपितस्य क्षीणहर्षीकृतस्य । 'उदकस्योदः संज्ञायाम्' ( पा. ६।३।५७ } इत्युदादेशः । तथाभूतस्य पद्मस्य दैन्यं दीनतां किं कुतो दधते बिभ्रति ? यूयं कुतः कारणतो भ्रष्टलक्ष्मीका इति प्रश्नाशयः ॥ ३५ ॥

स्वर्गौकसः! स्वर्गपरिच्युताः किं स्वपुण्यराशौ सुमहत्तमेऽपि । चिह्नं चिरोढं न तु यूयमेते निजाधिपत्यस्य परित्यजध्वम् ॥३६॥

स्वर्गौकस इति ॥ हे स्वर्गौकसः ! स्वपुण्यराशौ स्वर्गप्राप्तिनिमित्तपुण्यव्रजे सुतरां महत्तमेऽपि, अक्षयेऽपीत्यर्थः । किं कुतः, स्वर्गपरिच्युताः स्वस्थानभ्रष्टाः ? भ्रंशे किं कारणमिति प्रश्नाशयः । अथ चाश्वासयति-एते यूयं चिरोढं बहु- कालमूढं निजाधिपत्यस्य स्वीयस्वामितायाश्चिह्नं छत्रचामरादि तु न परित्यजध्वं मा परित्यजत । विध्यर्थे लोट् । त्यजध्वमित्यात्मनेपदं चिन्त्यम् ॥ ३६ ॥

दिवौकसो! देवगृहं विहाय मनुष्यसाधारणतामवाप्ताः । यूयं कुतः कारणतश्वरध्वं महीतले मानभृतो महान्तः ॥ ३७॥

दिवौकस इति ॥ हे दिवौकसः ! महान्तोऽत एव मानभृतो मनस्विनो यूयं कुतः कारणतः कारणाद्देवगृहं स्वर्गं विहाय परित्यज्य मनुष्यसाधारणतां मानवसाम्यमवाप्ताः सन्तो महीतले चरध्वम् ? संप्रश्ने लोट् । अत्राप्यात्मनेपदं चिन्त्यम् ॥ ३५॥ पाठा०-१ दिवौकसाम्. २ सुपुण्यराशौ. ३ सुमहत्तरे. ४ वत; ननु. ५ स्वर्गौ-

कसः. ६ चरध्वे. ७ महीभृतः. ८ मानधनाः.