सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.3 तृतीयप्रपाठकः/1.1.3.8 अष्टमी दशतिः

विकिस्रोतः तः
Jump to navigation Jump to search


सत्यमित्था वृषेदसि वृषजूतिर्नोऽविता ।
वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥ २६३ ॥

यच्छक्रासि परावति यदर्वावति वृत्रहन् ।
अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावां आ विवासति ॥ २६४ ॥

अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसं ।
इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥ २६५ ॥

इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तये ।
छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥ २६६ ॥

श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥ २६७ ॥

न सीमदेव आप तदिषं दीर्घायो मर्त्यः ।
एतग्वा चिद्या एतशो युयोजत इन्द्रो हरी युयोजते ॥ २६८ ॥

आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत ।
उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥ २६९ ॥
शाक्राणि वा

तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमं ।
सत्रा विश्वस्य परमस्य राजसि न किष्ट्वा गोषु वृण्वते ॥ २७० ॥
यशःसाम

क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः ।
अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः ॥ २७१ ॥

वयमेनमिदा ह्योपीपेमेह वज्रिणं ।
तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥ २७२ ॥