सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.3 तृतीयप्रपाठकः/1.1.3.10 दशमी दशतिः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

इत ऊती वो अजरं प्रहेतारमप्रहितं ।
आशुं जेतारं हेतारं रथीतममतूर्तं तुग्रियावृधं ॥ २८३ ॥

मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् ।
आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि ॥ २८४ ॥

सुनोत सोमपाव्ने सोममिन्द्राय वज्रिणे ।
पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ॥ २८५ ॥

यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयं ।
सहस्रमन्यो तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥ २८६ ॥

शचीभिर्नः शचीवसू दिवानक्तं दिशस्यतं ।
मा वां रातिरुप दसत्कदा च नास्मद्रातिः कदा च न ॥ २८७ ॥

यदा कदा च मीढुषे स्तोता जरेत मर्त्यः ।
आदिद्वन्देत वरुणं विपा गिरा धर्त्तारं विव्रतानां ॥ २८८ ॥

पाहि गा अन्धसो मद इन्द्राय मेध्यातिथे ।
यः सम्मिश्लो हर्योर्यो हिरण्यय इन्द्रो वज्री हिरण्ययः ॥ २८९ ॥

उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।
सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥२९० ॥

महे च न त्वाद्रिवः परा शुल्काय दीयसे ।
न सहस्राय नायुताये वज्रिवो न शताय शतामघ ॥ २९१ ॥

वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः ।
माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥ २९२ ॥