हारीतसंहिता/षष्ठस्थानम्

विकिस्रोतः तः
Jump to navigation Jump to search
← पञ्चमस्थानम् हारीतसंहिता
षष्ठस्थानम्
[[लेखकः :|]]

प्रथमोऽध्यायः[सम्पाद्यताम्]

आत्रेय उवाच
पञ्चभूतात्मकं देहं पञ्चेन्द्रियसमायुतम्
सप्तधातुगुणोपेतं दशवातात्मिकं विदुः १
जीवो मनस्तथाकाशस्तथैव त्रिगुणात्मिकः
शुक्रशोणितसम्भूतं शरीरं दोषभाजनम्
पञ्चभूतमयं चैतद्विज्ञेयं भिषजां वर २
चतुर्विधं शरीरं स्याद्बाल्यं प्रौढं प्रगल्भकम्
स्थविरञ्च तथा प्रोक्तं बाल्यमल्पशरीरकम्
षोडशवार्षिकं यावद्बाल्यं तावत् प्रवर्त्तते ३
धातूनाञ्च बलं तत्र धातुमूलं शरीरकम्
धातूनां पुष्टियोगेन शरीरञ्चातिवर्द्धते ४
जीवितं धातुमूलं तु मृत्युर्धातुक्षयादपि
हीनधातोश्च योगेन लभते स्वल्पजीवनम् ५
नरो धातुबलेनापि जीवितश्चात्र दृश्यते
तस्माच्च मैथुनात्सम्यग्जायते गर्भसम्भवः ६
आदौ धातुबलं तस्मात्सत्त्वं तस्माद्रजो विदुः
रजसा जायते कामः कामात्सुरत सङ्गमः ७
मासे मासे ऋतुः स्त्रीणां दृष्ट्वा ऋतुमतीस्त्रियः
रजः सप्तदिनं यावदृतुश्च भिषजां वर ८
सप्तरात्राद्योनिशुद्धिस्तस्मादृतुमती भवेत्
दृश्यते च रजः स्त्रीणां विना योगेन पुत्रक ९
दृश्यते न विना योगात्फलं स्त्रीणां तु पुत्रक
संशयाद्विस्मितश्चित्ते हारीतः पृरिपृच्छति १०
हारीत उवाच
संयोगेन विना प्राज्ञ कथं गर्भो न जायते
संयोगेन विना पुष्पं फलं वा न कथं भवेत् ११
वृक्षवन्न कथं स्त्रीणां फलोत्पत्तिः प्रदृश्यते
एतत्पृष्टो महाचार्यः प्रोवाच ऋषिपुङ्गवः १२
आत्रेय उवाच
विरुद्धानाञ्च वल्लीनां स्थावराणाञ्च पुत्रक
तत्र धातुसमं बीजं सह योगेन वर्त्तते १३
न भिन्नदृष्टिस्तस्येव दृश्यते शृणु पुत्रक
स्थावराणाञ्च सर्वेषां शिवशक्तिमयं विदुः १४
निश्चलोऽपि शिवो ज्ञेयो व्याप्तिशक्तिर्महामते
तत्र स्त्रीपुरुषगुणा वर्त्तन्ते समयोगतः १५
आम्रपुष्पं फलं तद्वद्बीजं शुक्रमयं विदुः
स्त्रीणां रजोमयं रेतो बीजाढ्यमिन्द्रियं नरे
तस्मात्संयोगतः पुत्र जायते गर्भसम्भवः १६
प्रथमेऽहनि रेतश्च संयोगात्कललं च यत्
जायते बुद्बुदाकारं शोणितञ्च दशाहनि १७
घनं पञ्चदशाहे स्याद्विंशाहे मांसपिण्डकम्
पञ्चविंशत्तमे प्राप्ते पञ्चभूतात्मसम्भवः १८
मासैकेन च पिण्डस्य पञ्चतत्त्वं प्रजायते
पञ्चाशद्दिनसम्प्राप्ते अङ्कुराणाञ्च सम्भवः १९
मासत्रये तु सम्प्राप्ते हस्तपादौ प्रवर्धते
सार्द्धमासत्रये प्राप्ते शिरश्च सारवद्भवेत् २०
चतुर्थके च लोमानां सम्भवश्चात्र दृश्यते
पञ्चमे च सुजीवः स्यात्षष्ठे प्रस्फुरणं भवेत् २१
अष्टमे मासि जाते च अग्नियोगः प्रवर्त्तते
मासे तु नवमे प्राप्ते जायते तस्य चेष्टितम् २२
जायते तस्य वैराग्यं गर्भवासस्य कारणात्
दशमे च प्रसूयेत तथैकादशमेऽपिवा २३
अथ दोषबलेनापि गर्भो वापि प्रसूयते
वातसम्प्रेरिते गर्भे अपूर्णे दिवसैर्यदि २४
प्रसूयते वाप्यथ तद्गर्भे बालः प्रदृश्यते
अथ वक्ष्यामि देहस्य वर्णज्ञानं महामते २५
नररेतोऽधिकत्वेन तथा शुक्राधिकेन तु
हीनरसेन्द्रियैर्वापि जायते पुरुषाधिकः २६
स्त्रीरेतसोधिकत्वेन हीनशुक्रेन्द्रियादपि
रजसोप्यधिकत्वेन स्त्रीसम्भूतिः प्रजायते २७
सप्तधातुबलेनापि प्रकृत्या विकृतेः समे
ऋतुव्याप्तरजःस्त्रीणां या या भवति भावना २८
सात्त्विकी राजसी वापि तामसी वापि सत्तम
तादृशं जनयेद्बालं गुणैर्वा तादृशैरपि २९
या च भावयते चित्ते भ्रातरं पितरं नरम्
येन वा तेन सदृशं सूयते सा भिषग्वर ३०
वातेन श्यामः पुरुषो वातप्रकृतिसम्भवः
पित्तेन गौरो भवति पित्तप्रकृतिवान्भवेत् ३१
श्लेष्मणा जायते स्निग्धः श्यामश्च लोमशस्तथा
दीर्घशिरोरुहः स्थूलो दीर्घप्रकृतिसंयुतः ३२
वातरक्तेन कृष्णोऽपि पित्तरक्तेन पिङ्गलः
पित्तवांश्च नरो रूक्षः स्निग्धः श्यामः कफासृजा ३३
भृङ्गराजाज्जनाकारं वातेन दृष्टिमण्डलम्
सूक्ष्मलोमा च कृष्णश्च रूक्षमूर्द्धजयान्वितः
यस्य वातेन तं विद्धि नखसूक्ष्मासितच्छविम् ३४
पित्तेन पीतश्च भवेदलोमा पिङ्गेक्षणा भासपिशङ्गकेशः
आलोमशः पीतनखप्रभः स्यात्क्षुधातुरो निरूष्मणा स दृप्तः ३५
सलोमशो दृप्तकठोरकेशः श्यामच्छविर्दृप्ततनुर्विशालः
सुस्निग्धदन्तः सितनेत्ररम्यो नखच्छविः पाण्डुसुदीर्घनासः ३६
समवीर्यरजस्त्वेन नरः स्त्रीप्रकृतिर्भवेत्
नपुंसकमिति ख्यातं न स्त्री न पुरुषो भवेत् ३७
दोषधातुविशेषेण सङ्गे सत्यङ्गसंभवः
कृतभ्रान्ते च सम्भोगे द्वाभ्याञ्च द्रवते मनः ३८
दृश्यते यमलोत्पत्तिरन्यचित्तप्रियङ्करी ३९
समदोषबलेनापि प्रकृत्या विकृतेरपि
शुक्रासृक्च भवेच्छ्यामा नपुंसकसमुद्भवः ४०
अथ बीजलेहिपञ्चभूताग्निना परिपक्वं कललं क्रियते ।
सोऽपि चान्तःस्थो वायुर्बुद्बुदाकारो बाह्यवातेन सम्भृतो भवति ।
स च कललं भूत्वा पञ्चभूताग्निना पिण्डं जनयति ।
तच्च पिण्डं परिपाकंगतंघनसङ्घातञ्च जातं व्यानवातेन पञ्चतत्त्वानि हस्तपादादीञ्छिरो वयवान्संजनयति अन्तःस्थो वायुरेकोऽपि नानास्थानं
समाश्रित्य देहाकारंकरोति ।
उदानो गलहृदयसंस्थितो देहमुखद्वारं प्रकाशयति ।
अपानवायुरधःस्थोऽपानद्वारं विशोधयति ।
एते चान्तःस्थाः पृथक्पृथक् मार्गेछिद्रं कृत्वा निर्गच्छन्ति ।
तान्येव नवद्वाराणि मुखघ्राणकर्णनेत्रापानमेहनानि चैतानि द्वाराणि वातेन प्रभवन्ति ।
तत्रान्तः स्थो वायुः प्रतानत्वेन हस्तपादाद्यानवयवान्संजनयति ४१
त्वङ्मांसकेशरोमास्थिभूभागं जनयेत्तथा
रसं रक्तञ्च लालाञ्च मूत्रं शुक्रं जलानि च ४२
अग्निं पितञ्च नेत्रञ्च तमः क्रोधादिपञ्चकम्
श्रुतिः स्पर्शस्तथोच्छवासः स्वेदञ्चंक्रमणादि च ४३
वाता ह्येते परिज्ञेया अन्या प्रकृतिरेव च
मनो बुद्धिस्तथा निद्रा आलस्यं मद एव च ४४
शून्यात्पञ्च प्रजायन्ते देहे देहे व्यवस्थिताः
वातरक्तेन त्वग्देहे मांसं त्वगाश्रितं मतम् ४५
शुक्रश्लेष्मोद्भवो मेदो रसोऽस्थिरक्तसम्भवः
पित्ताश्रितं हृदयस्थं वातरक्तमयं यकृत् ४६
रक्तश्लेष्मरसाश्रित उरुः कफरक्तश्लेष्ममयः
प्लीहाकफरक्तमयः पेश्यश्च ४७
पञ्चभूतमयं देहमाकाशं शून्यमेव च
शून्याद्वायुः समुत्पन्नो वायोः प्राणः प्रजायते
प्राणांशश्च तथा जातः सर्वसत्त्वे प्रतिष्ठितः ४८
आकाशाज्जलमुत्पन्नं जलाज्जाता वसुन्धरा
तस्यास्तेजस्तथा जातं तेजसो जायते तमः ४९
पञ्चभूतात्मके देहे पञ्चेन्द्रियसमायुते
भूतानाञ्च प्रधानो य आकाशमिति शब्दितः ५०
आकाशात्तेजस्तेजसो दर्पो दर्पात्पराक्रमस्तस्मादहङ्कारस्ततः कोपः कोपात्तमस्तमसःपापमिति ।
आकाशत्सत्त्वं सत्त्वात्सत्यं सत्यात्तपस्तपसो नयो नयाद्विवेको विवेकाच्छान्तिः शान्त्या धर्म इति ।
सत्त्वाद्रजो रजसः कामः कामाल्लौल्यं लौल्यादसत्यमसत्यात्पापमिति ।
रसात्कामः कामादभिलाषोऽभिलाषात्प्रजा प्रजाया मैत्री मैत्र्याः स्नेहः स्नेहान्मोहो मोहान्मायाततो भ्रान्तिर्भ्रान्त्या मिथ्या ततोऽविद्या अविद्यायाः पुण्यपापानि पुण्यपापेभ्यः सम्भव इति ५१
सत्त्वाच्च तम एव स्याज्जाग्रते स्वपते प्रभुः
तमसा प्रवृतो देही व्योमेन शून्यतां गतः ५२
देहं विश्रमते यस्मात्तस्मान्निद्रा प्रकीर्त्तिता
नासार्द्धं च भ्रुवोर्मध्ये लीयते चान्तरात्मना ५३
तस्माच्चेतो भवेत्तत्र निद्रा व्यालीयते नृणाम् ५४
सत्त्वात्तेजः समाख्यातं तेजसा पित्तमेव च
जायते वायुर्मनसः स्वपते तमसा वृतः ५५
वायोस्तमः समायोगात्स्वप्नावस्थेति गीयते
सत्त्वं तमस्तथा वायुर्वर्त्तते चैकयोगतः ५६
आहरनिद्रा च क्षुधा च तृष्णाभयञ्च मात्सर्यमदश्च मोहः
क्रोधाभिलाषः सुखतृतिशान्तिर्भवन्ति वैदेहभृतां शृणु त्वम् ५७
आहारस्येच्छया देहे विचरते हुताशनः
तृप्तिं वापि समाप्नोति रसस्वादरजस्य च ५८
यदा यदा शोषयते मलानामग्निस्तदा तृप्तिमिवातनोति
यदा च यस्यैव भवेदतृप्तिस्तदैव तृष्णां प्रतनोति चेतः ५९
इत्यात्रेयभाषिते हारीतोत्तरे शारीरस्थाने शारीराध्यायो नाम प्रथमोऽध्यायः १
इति शारीरस्थानं समाप्तम्

परिशिष्टाध्यायः[सम्पाद्यताम्]

इति प्रोक्तः शरीरार्थस्तद्व्यासेनोपदिश्यते
श्रुत्वा चैनं महातेजा हारीतो मुनिसत्तमः १
प्रणिपत्य गुरुश्रेष्ठं हृष्टान्तःकरणस्ततः
जगाम स्वर्णदीतीरं स्नानध्यानरतस्तथा २
य एतत् पठति शास्त्रं महर्षर्वचनाच्छ्रुतम्
सर्वपापविनिर्मुक्तो नीरुजः सुखमश्रुते ३
आदौ यद् ब्रह्मणा प्रोक्तमत्रिणा तदनन्तरम्
धन्वन्तरिणा प्रोक्तञ्च अश्विना च महात्मना ४
एवं वेदसमं ज्ञेयं नावज्ञाकारणं मतम्
अन्यैश्च बहुधा प्रोक्त नानाशास्त्रविशारदैः ५
अमीषां च मतं ग्राह्यं तस्मात् सर्वे समं विदुः
चरकः सुश्रुतश्चैव वाग्भटञ्च तथापरः ६
मुख्याश्च संहिता वाच्यास्तिस्त्र एव युगे युगे ७
अत्रिःकृतयुगेवैद्यो द्वापरे सुश्रुतो मतः
कलौ वाग्भटनामा च गरिमात्र प्रदृश्यते ८
वैष्णवी चाश्विनी गार्गी तत्र माध्याह्निकापरा
मार्कण्डेया च कथिता योगराजेन धीमता ९
संहिता ऋषिभिः प्रोक्ता मन्त्रैर्नानाविधैर्विभो १०
अग्निवेशश्च भेडश्च जातूकर्ण्य पराशरः
हारीतःक्षीरपाणिश्च षडेते ऋषयस्तु ते ११
यथा सिंहो मृगेन्द्राणां यथानन्तो भुजङ्गमे
देवानाञ्च यथा शम्भुस्तथात्रेयोऽस्ति वैद्यके १२
तस्माद्यत्नेन सद्वैद्यैः सादरार्द्रसुमानसैः
अर्चनीयोऽनुमन्तव्यो दास्यति सुखसम्पदः १३
इत्यात्रेयभाषिते हारीतोत्तरे परिशिष्टाध्यायः १
इति हारीतसंहिता समाप्ता