हारीतसंहिता/पञ्चमस्थानम्
← चतुर्थस्थानम् | हारीतसंहिता पञ्चमस्थानम् हारीतः |
षष्ठस्थानम् → |
प्रथमोऽध्यायः
[सम्पाद्यताम्]हिमवच्छिखरे रम्ये सिद्धगन्धर्वसेविते
तत्रस्थं तपस्तेजस्थमत्रिञ्च मुनिपुङ्गवम् १
कल्पानाञ्च प्रयत्नने हारीतः परिपृच्छति २
ज्ञातं चैतन्मया तात समासेन चिकित्सितम्
इदानीं श्रोतुमिच्छामि कल्पस्थानं तु सुव्रत ३
अत्रिरुवाच
कल्पानामभया श्रेष्ठा तस्याः शृणु गुणागुणम् ४
स्वर्गस्थामराध्यक्षस्य अमृतं पिबतस्ततः
पतिता बिन्दवो भूमौ तेभ्यो जाता हरीतकी ५
रसैः पञ्चभिः संयुक्ता रसेनैकेन वर्जिता
कषायाम्ला च कटुका तिक्ता स्वादुरसा स्मृता
लवणेन वर्जिता च शृणु तस्याः पृथक्पृथक् ६
त्वचाश्रितञ्च कटुकं मेदस्तस्याः कषायकम्
मेदोऽन्तरे तथा चाम्लं मधुरं चास्थिसंश्रितम् ७
तिक्तञ्चान्तरे तावत् तु रसैः पञ्चभिः संयुता
आम्लत्वान्मारुतं हन्ति पित्तं मधुरतिक्ततः
कफं कटुकषायत्वात्त्रिदोषघ्नी हरीतकी ८
हरीतकी देहभृतां हिता स्यान्मातेव चैषा हितकारिणी च ।
वरं कदाचित्कुपितापि माता न कुप्यते चाचरितापि पथ्या ९
तस्या उत्पत्तिनामानि वक्ष्यामि शृणु कोविद १०
विजया रोहिणी चैव पूतना चामृता तथा
चेतकी चाभया चैव जीवन्ती चैव सप्तमी ११
विन्ध्ये च विजया जाता अभया च हिमालये
रोहिणी वैदिशे जाता पूतना मगघे स्मृता १२
जीवन्तिका सुराष्ट्रयां चम्पायां चेतकी मता
अमृता सरयूतीर इत्येताः सप्त जातयः १३
अभया नेत्ररोगेषु शिरोरोगेषु कालिका
सर्वप्रयोगे विजया रोहिणी क्षतरोहिणी १४
पूतना लेपनार्थे च अमृता च तथा मता
चेतकी सर्वतो योज्या जीवन्ती चूर्णयोगतः १५
बालानामुपकारार्थं विजयां परिलक्षयेत्
त्र्यस्रा च रोहिणी प्रोक्ता अमृता स्थूलमांसला १६
पञ्चास्रा चाभया प्रोक्ता पूतना चतुरस्रका
त्र्यस्रा तु चेतकी प्रोक्ता जीवन्ती दीर्घमांसला १७
विजया नीलवर्णा च पीता स्याद्रोहिणी भिषक्
अमृता कृष्णवर्णा च किञ्चिच्छुभ्राभया तथा १८
सार्द्धद्व्यंगुलमानेन अमृतां लक्षयेद् बुधः १९
पथ्या भवेत्पथ्यतमा नराणां रोगांश्च सर्वान्विनिहन्ति सद्यः ।
आयुःप्रदा तुष्टिमतीवमेधावर्णौजतेजःस्मृतिमातनोति २०
उन्मूलिनी पित्तकफानिलानां सन्मीलिनी बुद्धिबलेन्द्रियाणाम्
विस्रंसिनी मूत्रशकृन्मलानां हरीतकी रोगहरा नराणाम् २१
इत्यात्रेयभाषिते हारीतोत्तरे कल्पस्थाने हरीतकीकल्पोनाम प्रथमोऽध्यायः १
द्वितीयोऽध्यायः
[सम्पाद्यताम्]आत्रेय उवाच
हरीतक्याश्चामलक्या विभीतकस्य च फलम्
त्रिफलेत्युच्यते वैद्यैर्वक्ष्यामि भागनिर्णयम् १
एकभागो हरीतक्या द्वौभागौ च विभीतकम्
आमलक्यास्त्रिभागश्च सहैकत्र प्रयोजयेत् २
त्रिफला कफपित्तघ्नी महाकुष्ठविनाशिनी
आयुष्या दीपनी चैव चक्षुष्या व्रणशोधिनी ३
वर्णप्रदायिनी घृष्टा विषमज्वरनाशिनी
दृष्टिप्रदा कण्डुहरा वमिगुल्मार्शनाशिनी ४
सर्वरोगप्रशमनी मेधा स्मृतिकरी परा
वक्ष्यामि योगयुक्तिञ्च रोगे रोगे पृथक्पृथक् ५
वाते घृतगुडोपेता पित्ते समधुशर्करा
श्लेष्मे त्रिकटुकोपेता मेहे समधुवारिणा ६
कुष्ठे च घृतसंयुक्ता सैन्धवेनाग्निमान्द्यहा
चक्षुर्धावनके क्वाथो नेत्ररोगनिवारणः ७
घृतेन हरते कण्डूं मातुलुङ्गरसैर्वमिम् ८
गुल्मार्शो गुडसूरणैः स स्यात्तु गुण कारकः
क्षीरेण राजयक्ष्माणं पाण्डुरोगं गुडेन च ९
भृङ्गराजरसेनापि घृतेन सह योजितः
वलीपलितहन्ता च तथा मेधाकरः स्मृतः १०
सक्षीरः सगुडः क्वाथो विषमज्वरनाशनः
सशर्कराघृतः क्वाथः सर्वजीर्णज्वरापहः ११
एषा नराणां हितकारिणी च सर्वप्रयोगे त्रिफला स्मृता च
सर्वामयानां शमनी च सद्यः सतेजकान्तिं प्रतिमां करोति १२
शोफे तथा कामलपाण्डुरोगे तथोदरे मूत्रयुता हिता च
हितातिसारे ग्रहणीविकारे हिता च तक्रेण फलत्रिका च १३
क्षीणेन्द्रिये जीर्णज्वरे च यक्ष्मे क्षीरेण युक्ता त्रिफला हिता च ।
स्यान्नेत्ररोगे च शिरोगदे च कुष्ठे च कण्डूव्रणपीडने च १४
मूत्रग्रहे कामलकेऽग्निमान्द्ये जलेन पीतस्त्रिफलादिकल्कः
सशीतकाले गुडनागरेण सशर्करा क्षीरयुता तथोष्णे १५
वर्षासु शुण्ठीसहिता फलत्रिका फलत्रिका सर्वरुजाहरा स्यात् १६
इत्यात्रेयभाषिते हारीतोत्तरे कल्पस्थाने त्रिफलाक्वाथो नाम द्वितीयोऽध्यायः २
तृतीयोऽध्यायः
[सम्पाद्यताम्]अभया द्व्यंगुला प्रोक्ता पूतना चतुरंगुला
सार्द्धांगुला च जीवन्ती चेतकी स्यात्षडंगुला १
चेतकी द्विविधा प्रोक्ता आकारवर्णतस्तथा
षडङ्गुला सिता प्रोक्ता शुक्ला चैकांगुला स्मृता २
श्रेष्ठा कृष्णा समाख्याता रेचनार्थे जिगीषुणा ३
चेतकी वृक्षशाखायां यावत्तिष्ठति तां पुनः
भिन्दन्ति पशुपक्ष्याद्या नराणां कोऽत्र विस्मयः ४
चेतकीं यावद्विधृत्य हस्ते तिष्ठति मानवः
तावद्भिनत्ति रोगांस्तु प्रभावान्नात्र संशयः ५
नृपाणां सुकुमाराणां तथा भेषजविद्विषाम्
कृशानां हितमेवं स्यात्सुखोपायविरेचनम् ६
हरीतकी दरिद्राणामनपायरसायनम्
पथ्यस्यान्तेऽथवा चादौ भक्षेच्चामयनाशिनीम् ७
तृषातुराणां हृदि कण्ठशोषे हनुग्रहे चापि गलग्रहे च
नवज्वरे क्षीणबलेन्द्रियाणां न गर्भिणीनां कथिता प्रशस्ता ८
हरीतकी वा गुडनागरेण सिन्धूत्ययुक्ता कथिता प्रयोगे
आमाशयस्या जठरामयञ्च जघान चेन्द्रायुधवद्द्रुमाणाम् ९
सशारदे वा सितया प्रयुक्ता शुण्ठी गुडेनापि हिमे प्रयोज्या
ससैन्धवपिप्पली शैशिरे च हितो वसन्ते त्रिकटुर्गुडेन १०
ग्रीष्मे सितानागरकैश्च पथ्या वर्षासु सिन्धूत्थयुता हिता च
निहन्ति सर्वामयमेव सद्यो घृतेन पथ्या विहिता हरीतकी ११
घृतेन देयं मनुजाय कल्कं आमानिलं हन्ति नरस्य कोष्ठे
दुष्टान्विकारान्हरतीति सद्य एरण्डतैलेन विपाच्य पथ्यम् १२
खादेत्तदेवानुपिबेच्च तैलं सशूलविष्टम्भकृतान्विकारान्
सर्वाञ्जयेत्पित्तकफानिलोत्थान्मूत्रे स्थितं सप्तदिनं महिष्याः १३
पञ्चाभया मूत्रपलानि पञ्च क्षीरेण सप्ताहमतिप्रशस्तम्
क्षीरोदशोषी परतस्तथान्ये एष त्रिसप्तादपरः प्रयोगः १४
वातोदरं शीघ्रमियं निहन्यात्प्लीहानमानाहमुरोग्रहञ्च
सपाण्डुरोगञ्च क्रिमींश्च हन्ति हरीतकी धान्यतुषाम्बुसिद्धा १५
सपिप्पलीसैन्धवयुक्तचूर्णं सोद्गारधूपं भृशमप्यजीर्णम्
निहन्ति सद्यो जनयेत्क्षुधाञ्च कल्कञ्च तस्याः सह नागरेण १६
ज्वरं जहाति सह सैन्धवेन दध्ना च तक्रेण हितातिसारे
सराजयक्ष्मे मधुनावलिह्यान्मूत्रेण शोफोदरनाशहेतोः १७
सपाण्डुरोगे समशर्करायाः शोषे सदाहे सह मातुलुङ्ग्या
रसेन युक्ता विहितातिपथ्या कल्कं समाप्तं कथितं मुनीन्द्रैः १८
इत्यात्रेयभाषिते हारीतोत्तरे कल्पस्थाने हरीतकीकल्पवर्णनभेदो नाम तृतीयोऽध्यायः ३
चतुर्थोऽध्यायः
[सम्पाद्यताम्]अमृतमथने जातः सुरासुरग्रहो महान्
जहार वैनतेयश्च चञ्चुना त्रिदिवं गतः १
संग्रामश्रमसम्प्राप्ते श्रमवेगप्रधाविते
आरूढे वैक्लवं प्राप्ते च्युता ह्यमृतबिन्दवः २
सकृत्सन्दूषिते देहे पतितास्तत्र संस्थिताः
तस्मात्कालवशाज्जातं दुर्भिक्षं द्वादशाब्दिकम् ३
विशुष्काः कानने सर्वा वृक्षकण्टप्रतानिकाः
तस्माच्च ऋषयः सर्वे प्रकृष्टं गहनं गताः ४
तेषां मध्ये जराग्रस्तो गतिहीनोऽतिजर्जरः
सयष्टिः सरणिक्षुण्णः शीर्णदन्तावलीमुखः ५
वव्यक्तस्थैः क्षुधापन्नैऋर्षिभिस्तत्रविश्रुतः
सोऽपि क्षुधातुरः सर्वां पर्यटत्युर्वरां महीम् ६
कुत्रचित् पुण्ययोगेन दृष्टवान्विटपान् शुभान्
नीलशैवालसङ्काशान् शाद्वलान्बहुलान् भुवि ७
क्षुधासम्पीडनेनापि भुक्तवान् सदलानपि ८
षण्मासानन्तरं शुष्कान् विटपांस्तदनन्तरम्
भुक्तवान्कन्दकान् सोऽपि मासमेकं तथा ऋषिः ९
पश्चात् सुभिक्षे सञ्जाते सर्वे चैकत्र संस्थिताः
सोऽपि वृद्धो युवा भूत्वा गतस्तत्र च यत्र ते १०
तं दृष्ट्वा विस्मयापन्नाः पप्रच्छुः किं कृतं त्वया
नोक्तवान् सतुकिञ्चिच्च रुषा तैः शापितस्ततः ११
यत्त्वया खादितं द्रव्यं तदभक्ष्यं द्विजातिभिः
दुर्गन्धमपि चित्रञ्च तस्माज्जातं रसोनकम् १२
अथवीर्यञ्च वक्ष्यामि रसोनस्य महामते
रसैः पञ्चभिः संयुक्तो रसोनस्तेन वर्जितः १३
कट्वम्लवीर्यो लशुनो हितश्च स्निग्धो गुरुः स्वादुरसोऽथ बल्यः ।
वृद्धस्य मेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरः सुतीक्ष्णः १४
हृद्रोगजीर्णज्वरकुक्षिशूलप्रमेहहिक्कारुचिगुल्मशोफान्
दुर्नामकुष्ठानलश्यावजं तु समीरणं श्वासकफान् निहन्ति १५
तेन रसोनकं नाम विख्यातं भुवनत्रये
कुक्कुटाण्डनिभं ग्रीष्मे शीर्णपर्णं समुद्धरेत् १६
बद्ध्वा पुटे सुनिर्गुप्तं धारयेत्तं महामते
वर्षासु शिशिरे चैव कारयेन्मात्रया युतम् १७
रामठं जीरके द्वे च अजमोदा कटुत्रयम्
घृतसौवर्चलोपेतं वातरोगे विशेषतः १८
मातुलुङ्गरसेनापि शूलानाहे प्रकीर्त्तितः
दध्ना वातादिशमनो रसोनो विहितो बुधैः १९
जाङ्गलादि रसान्येव भोजनार्थे प्रदापयेत् २०
निष्पीड्य च रसं तस्य गृहीत्वा मुनिसत्तम
दुग्धेन शर्करोपेतं पित्तरोगे पिबेन्नरः २१
राजयक्ष्मक्षये पाण्डौ कामलायां हलीमके
शिरोरुजासु सर्वासु रक्तपित्तभ्रमेषु च २२
शोष मूर्च्छापस्मारे च हितं चैतद्रसायनम् २३
परिपिष्य रसोनञ्च तत्समा त्रिवृता मता
गुडेनैरण्डतैलेन शीतं दत्त्वा च लेहकम् २४
भवत्येतत्समादृत्य पाययेन्मूत्ररोगिणाम्
शोफे गुल्मे वामवाते हितमेतत्तदार्शसाम् २५
हरिणशशकलावातित्तिराणाञ्च मांसं कर्करमपि मयूरादिसाराद्यजाद्यम् ।
घृतमधुररसानां शालिगोधूममासां हितमिति मनुजानां गुग्गुले वा रसोने २६
व्यायामयानातपमैथुनानि क्रोधाध्वजीर्णान्परिवर्जयेच्च
विवर्जयेद्वापि तथातिसारे मेहामये पाण्डुगुदानये च २७
न गर्भिणीनां न च बालकानां भ्रमातुरे वा न मदातुरे च
न रक्तपित्ते न च कुष्ठिनेऽपि न रक्तवाते न विसर्पिके च २८
दत्तो रसोनो यदि मूढबुद्ध्या विरेचनं वा वमनं विधेयम्
न वान्यथा कुष्ठमथापि पाण्डुं त्वद्गोषरोषं कुरुते नरस्य
सुयोगयुक्याऽमृतवन्नराणां वीर्येन्द्रियं पुष्टिबलं तनोति २९
इत्यात्रेयभाषिते हारीतोत्तरे कल्पस्थाने रसोनकल्पो नाम चतुर्थोऽध्यायः ४
पञ्चमोऽध्यायः
[सम्पाद्यताम्]हारीत उवाच
भगवन् गुग्गुलो नाम योगवीर्यमथोगुणम्
वक्तुमर्हसि रोगेषु येषु वापि प्रशस्यते १
एवमुक्तस्तु शिष्येण प्रत्युवाच महातपाः २
आत्रेय उवाच
मरुभूमौ प्रजायन्ते प्रायशः पुरपादपाः
भानोर्मयूखैः सततं ग्रीष्मे मुञ्चन्ति गुग्गुलम् ३
हिमाद्रितो वा हेमन्ते विधिवत्तं समाहरेत्
जातरूपनिभं शुभ्रं पद्मरागनिभं क्वचित् ४
क्वचिन्महिषनेत्राभं यक्षदैवतवल्लभम्
विधानं तस्य विधिवन्निबोध गदतो मम ५
त्रिदोषशमनो वृष्यः स्निग्धो बृंहणदीपनः
गुग्गुलः कटुकः पाके वर्णप्रबलवर्द्धनः ६
आयुष्यः श्रीकरः पुत्रस्मृतिमेधाविवर्द्धनः
पापप्रशमनः श्रेष्ठः शुक्रार्त्तवकरः स्मृतः ७
वर्णगन्धरसोपेतो गुग्गुलो मात्रया युतः
भेषजैः सह निष्क्वाथ्यो यथा व्याधिहरैः पृथक् ८
मात्रावशिष्टं तं दृष्ट्वा चालयेच्छुक्लवाससा
मृन्मये हेमपात्रे च राजते स्फाटिकेऽपिवा ९
पुण्ये तिथौ शुभे च जीर्णाहारः क्षमान्वितः
हुत्वाग्निं पर्युपासीत देवब्राह्मणभक्तितः १०
प्रविश्य कुसुमाकीर्णे मन्दिरे च समाश्रिते
रास्ना गुडूची चैरण्डो दशमूलं प्रसारिणी ११
क्वाथं तेषां यथायोग्यं यवान्या वातिके पिबेत्
पृथक्छ्रतैर्जीवनीयैः पिबेत्पित्तामयार्दितः १२
वासाचन्दनह्रीबेरं मृद्वीका तिक्तरोहिणी
सर्जूरञ्च परूषञ्च तथा जीवककर्षकौ
सपित्तरोगे पानाय क्वाथः स्याद्गुग्गुलान्वितः १३
त्रिफलाव्योषगोमूत्र निम्बधान्यकपुष्करैः
अमृता दीप्यकः क्वाथः पटोली च कफार्दितः १४
नाडीदुष्टव्रणग्रन्थिगण्डमालार्बुदान्वितः
त्रिफलाक्वाथसंयुक्तं पिबेन्मेही व्रणी तथा १५
किरातकामृतानिम्बवृषाव्याघ्रीदुरालभाः
एषां क्वातेन संयुक्तं गुग्गुलं पाययेद्भिषक् १६
गुल्मे कासे क्षते श्वासे विद्रधावरुचौ व्रणे
दार्वी पटोलक्वाथेन संयुक्तं गुग्गुलं पिबेत् १७
कण्डूपिटकशोफाद्ये पिबेद्वातकफापहम्
पथ्या पुनर्नवा दार्वी गोमूत्रममृतं तथा १८
एषां क्वाथो हितः पाण्डौ शोथो दरकिलासिनाम्
भवेन्मात्रां पलं यावत्कर्षादारभ्य यत्नतः १९
जीर्णेऽश्नीयान्मुद्गयूषैर्रसैर्वा जाङ्गलैस्तथा
पयसा षष्टिकान्नञ्च शालीनामोदनं मृदु २०
दिनाः सप्त प्रथमा च मध्यमा द्विगुणाः स्मृताः
त्रिगुणाः परमा मात्रा विज्ञेया योगचिन्तकैः २१
सेवते गुग्गुलं यो वै वर्षेणापि नरः क्रमात्
स्थावराज्जङ्गमाच्चैव न स्यादस्य क्षतिर्विषात् २२
निर्मुक्तो वलितत्वचोपि पलितो वृद्धो युवा जायते मेधादृष्टिबलौजवीर्यमधिकं वृद्धत्वहीनो भवेत्
गुल्माष्ठीलहृदामवातशमनः कुष्ठं प्रमेहाश्मरीं
शूलानाहविसर्परक्तशमनो भूतोपसृष्टे हितः २३
इत्यात्रेयभाषिते हारीतोत्तरे कल्पस्थाने गुग्गुलकल्पो नाम पञ्चमोऽध्यायः ५
इति पञ्चमं कल्पस्थानं समाप्तम्