सामग्री पर जाएँ

हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १३०

विकिस्रोतः तः
← अध्यायः १२९ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः १३०
[[लेखकः :|]]
अध्यायः १३१ →
गोपगोपीभिःसहितैः यशोदानन्दयोः गोवर्धनपर्वते आगत्वा श्रीकृष्णबलभद्राभ्यां सह समागमम्।

त्रिंशदधिकशततमोऽध्यायः

वैशम्पायन उवाच
यशोदा नन्दगोपश्च कृष्णदर्शनलालसौ ।
गोवर्धनगतं श्रुत्वा वासुदेवं सहाग्रजम् ।। १ ।।
नवनीतं च दधि च पायसं कृसरं तथा ।
वन्यं पुष्पं महाराज मयूराङ्गदमेव च ।। २ ।।
बल्लवैरपरैः सार्धं गोपिभिश्च समन्ततः ।
जग्मतुः सहसा प्रीतौ गोवर्धनमथो नृप ।। ३ ।।
क्वचिद् वृक्षे समासक्तं कृष्णं कृष्णमृगेक्षणम् ।
ददर्शतुर्महाबाहुं वासुदेवं सहाग्रजम् ।। ४ ।।
प्रणेमतुः सुसंहृष्टौ तत्र दृष्ट्वा महाबलौ ।
दर्शयामासतुर्देवौ पायसानि महान्ति च ।। ५ ।।
तात मातर्व्रजे गोष्ठे कुशलं वा स्वगोधनम् ।
अपि गावः क्षीरवत्यो वत्सा वत्सतराः पितः ।। ६ ।।
अपि वा सुशुभं क्षीरमपि गावः सुशोभनाः ।
अपि वा दारका मातर्वत्सपालाः पिबन्ति च ।। ७ ।।
बहूनि चापि दामानि कीलका अपि वा बहु ।
तृणानि बहुरूपाणि किं वा सन्ति पितः सदा ।। ८ ।।
शकटानि सुगन्धीनि किं वा सन्ति पितर्ध्रुवम् ।
अपि गोप्यः पुत्रवत्यो दारकान्किमजीजनन् ।। ९ ।।
घटाः किं बहवो मातरभिन्नाः सर्वतो व्रजे ।
किं गावः क्षीरमतुलं स्रवन्त्यहरहः पितः ।। 3.130.१० ।।
हैयङ्गवीनं क्षीराणि दधि वा किमजीजनन् ।
गोधनं सर्वमेवेदं नीरोगं प्रतिपद्यते ।। ११ ।।
नन्द उवाच
सर्वमेतद् यदुश्रेष्ठ नीरोगं बहुशः प्रभो ।
कुशलं गोधनस्यैव सर्वकालेषु केशव ।। १२ ।।
रक्षणात् तव देवेश सदा कुशलिनो वयम् ।
सगोधनाः सवत्साश्च नीरोगा इव केशव ।। १३ ।।
एकमेव सदा दुःखं न त्वां द्रक्ष्यामि केशव ।
यदेतत् केवलं दुःखमिति धीः शीर्यते सदा ।। १४ ।।
वैशम्पायन उवाच
एवमादि विलप्यन्तं गच्छेत्याह स केशवः ।
यशोदां पुनराहेदं मातर्गच्छ गृहं प्रति ।। १५ ।।
ये च त्वां कीर्तयिष्यन्ति ते च स्वर्गमवाप्नुयुः ।
ये केचित् त्वां नमस्यन्ति ते मे प्रियतराः सदा ।। १६ ।।
मद्भक्ताः सर्वदा सन्तु गच्छेत्याह च तां हरिः ।
इत्युक्त्वा पितरौ देवो वासुदेवः सनातनः ।। १७ ।।
गाढमालिङ्ग्य तौ प्रीतौ प्रेषयामास केशवः ।
यशोदा नन्दगोपश्च जग्मतुः स्वगृहं प्रति ।। १८ ।।
ततः कृष्णो हृषीकेशो यादवैः सह वृष्णिभिः ।
गन्तुमैच्छत्तदा विष्णुः पुरीं द्वारवतीं किल ।। १९ ।।
य एतच्छृणुयान्नित्यं पठेद् वापि समाहितः ।
पुत्रवान् धनवांश्चैव अन्ते मोक्षं च गच्छति ।। 3.130.२०।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि
यशोदानन्दगोपबलभद्रकृष्णसमागमे त्रिंशदधिकशततमोऽध्यायः ।। १३० ।।