हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १२९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १२८ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः १२९
[[लेखकः :|]]
अध्यायः १३० →
डिम्भकस्य आत्महत्या

एकोनत्रिंशदधिकशततमोऽध्यायः

वैशम्पायन उवाच
श्रुत्वा निहतमत्युग्रं भ्रातरं वीर्यशालिनम् ।
बलदेवं परित्यज्य युध्यमानं महारणे ।। १ ।।
डिम्भको वीर्यसम्पन्नो यमुनामनुजग्मिवान् ।
तमन्वधावद् वेगेन बलभद्रो हलायुधः ।। २ ।।
हंसो हि यत्र पतितस्तत्रासौ निपपात ह ।
यमुनायां महाराज विलोड्य जलसंचयम् ।। ३ ।।
अथं क्रुद्धः स डिम्भको भ्रामयित्वा जलं बहु ।
उन्मज्ज्योन्मज्ज्य सहसा निमज्ज्य च पुनः पुनः ४।।
न ददर्श तदा राजन् भ्रातरं वीर्यशालिनम् ।
उन्मज्ज्याथ महाबाहुर्वासुदेवं विलोक्य च ।। ५ ।।
उवाच वचनं राजन् डिम्भको वीर्यवत्तमः ।
अरे गोपकदायाद क्वासौ हंस इति स्थितः ।। ६ ।।
वासुदेवोऽपि धर्मात्मा यमुनां पृच्छ राजक ।
इत्यब्रवीत् प्रसन्नात्मा वासुदेवः प्रतापवान् ।। ७ ।।
तच्छ्रुत्वा यमुनां भूयः प्रविश्य डिम्भकः किल ।
बहुप्रकारमुद्वीक्ष्य भ्रातरं भ्रातृवत्सलः ।। ८ ।।
विललाप ततो राजा डिम्भको भ्रान्तमानसः ।
क्व नु गच्छसि राजेन्द्र विहायैनमबान्धवम् ।। ९ ।।
कुतो भ्रातरितो गच्छेः परित्यज्यैव मामिह ।
विलप्यैवं नृपश्रेष्ठ डिम्भको भ्रातृवत्सलः ।। 3.129.१० ।।
आत्मत्यागे मनः कुर्वन् यमुनाया महाह्रदे ।।
निमज्योन्मज्य सहसा मरणे कृतनिश्चयः ।। ११ ।।
हस्तेन जिह्वामाकृष्य भूयो भूयो विलप्य च ।
ततः समूलामाकृष्य जिह्वां साहसकृत् स्वयम् ।। १२ ।।
ममारान्तर्जले राजन् डिम्भको नरकाय वै ।
एवं तु निहते हंसे डिम्भके वीर्यशालिनि ।। १३ ।।
आगमत्पुण्डरीकाक्षो भूतान्विस्मापयन्निव ।
ततः प्रीतः प्रसन्नात्मा वासुदेवः प्रतापवान् ।। १४।।
गोवर्धनेऽथ विश्रम्य बलभद्रसहायवान् ।
कंचित् कालं महाराज पूर्वभुक्तमुवास ह ।। १५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि डिम्भकमरणे एकोनत्रिंशदधिकशततमोऽध्यायः ।। १२९ ।।