हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ११७
← अध्यायः ११६ | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः ११७ [[लेखकः :|]] |
अध्यायः ११८ → |
सात्यकिसहितस्य जनार्दनस्य शाल्वनगरे गमनं, हंसेन सह मिलनं, हंसेन जनार्दनात् कार्यसिद्धिविषये पृच्छा |
सप्तदशाधिकशततमोऽध्यायः
वैशम्पायन उवाच
इत्युक्त्वा ब्राह्मणं कृष्णः सात्यकिं पुनराह सः ।
गत्वा शैनेय विप्रेण ब्रूहि मद्वचनात् तयोः ।। १ ।।
यन्मयोक्तमशेषेण वद गत्वा तयोः पुरः ।
यथा नः संगतिर्युद्धे तथा वद बलात् तदा ।। २ ।।
धनुरादाय गच्छ त्वं बद्धगोधाङ्गुलित्रवान् ।
एकेनाश्वेन गच्छ त्वमसहायो यदूत्तम ।। ३ ।।
सात्यकिस्तं तथेत्युक्त्वा हयमारुह्य शीघ्रगम् ।
गन्तुमैच्छत् ततो राजन्नसहायः स सात्यकिः ।। ४ ।।
जनार्दनं विसृज्याशु दूतं तं यादवेश्वरः ।
अहो धार्ष्ट्यमहो धार्ष्ट्यमित्युवाच जनार्दनः ।। ५ ।।
नमस्कृत्य तदा दूतो माधवं माधवेश्वरम् ।
स ययौ शाल्वनगरं शैनेयेन समन्वितः ।। ६ ।।
ततः प्रविश्य धर्मात्मा ब्राह्मणो ब्रह्मवित्तमः ।
आसनं महदास्थाय विसृज्य यादवे पुनः ।। ७ ।।
आस्ते सुखं यदा विप्रः शैनेयेन समन्वितः ।
अथ तं हंसडिम्भयोर्दर्शयामास सात्यकिम् ।। ८ ।।
दूतोऽयं सात्यकिः प्राप्तः सव्यो बाहुरयं हरेः ।
तस्य तद् वचनं श्रुत्वा हंसः प्राह वचस्तदा ।। ९ ।।
श्रुतः समागमः पूर्वमद्य दृष्टो मया त्वसौ ।
धनुर्वेदे च वेदे च शास्त्रे शस्त्रे तथैव च ।। 3.117.१० ।।
निपुणोऽयं सदा धीर इत्येवमनुशुश्रुम ।
अथो दृष्टिपथं प्राप्तः प्रीतिं नौ विदधात्यसौ ।। ११ ।।
कुशलं वासुदेवस्य बलभद्रस्य वा पुनः ।
कुशलाः सात्वताः सर्वे उग्रसेनपुरोगमाः ।। १२ ।।
तथेति सात्यकिः प्राह मन्दमुन्मथिताननः ।
ततो जनार्दनं प्राह हंसो वाक्यविशारदः ।। १३ ।।
अपि दृष्टस्त्वया चक्री सिद्धं नः कार्यमीहितम् ।
वद सर्वमशेषेण मा वृथा कालमत्यगाः ।। १४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हंसवाक्ये सप्तदशाधिकशततमोऽध्यायः ।। ११७ ।।