हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ११६
← अध्यायः ११५ | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः ११६ [[लेखकः :|]] |
अध्यायः ११७ → |
श्रीकृष्णेन जनार्दनं संदेशं दत्त्वा प्रत्यागमनाय निर्देशं |
षोडशाधिकशततमोऽध्यायः
वैशम्पायन उवाच
हासं कुर्वत्सु तेष्वेवं केशवः केशिसूदनः ।
उवाच वचनं दूतं गच्छ मद्वचनाद् द्विज ।। १ ।।
तावित्थं हंसडिम्भकौ ब्रूहि त्वरितविक्रमः ।
बाणैर्दास्यामि निशितैः शार्ङ्गमुक्तैः शिलाशितैः ।। २ ।।
असिना वाथ दास्यामि निशितेन महात्मनोः ।
शिरो वा छेत्स्यते चक्रं मत्करप्रहितं बलिम् ।। ३ ।।
यो वरं दत्तवान् रुद्रो युवयोर्धार्ष्ट्यकारणम् ।
स एव रक्षिता वां स्यात्तं जित्वा वां निहन्म्यहम् ।। ४ ।।
देशोऽयं संविधातव्यो यत्र नः संगतिर्भवेत्।
तत्र गन्ता तथा चास्मि सबलः सहवाहनः।।५।।
भवन्तौ निर्भयौ भूत्वा गच्छेतां सबलौ नृपौ ।
पुष्करे वा प्रयागे वा मथुरायामथापि वा ।। ६ ।।
तत्राहं सबलो याता नात्र कार्या विचारणा ।
अथवा मित्रभावाच्च वक्तुमेवं न ते क्षमम् ।। ७ ।।
न शक्यं यत् त्वया वक्तुं तच्च वक्ष्यति सात्यकिः ।
त्वया सह ततो गत्वा साक्षिभूतो भव द्विज ।। ८ ।।
इदं च जाने विप्रेन्द्र स्नेहो मयि सदा तव ।
तेन त्वं विजयी भूत्वा संसारे दुःखसंकुले ।
मत्कथापरमो नित्यं सदा भव जनार्दन ।। ९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने षोडशाधिकशततमोऽध्यायः ।।११६ ।।